प्रजापतिर्ऋषिश्छन्दस्त्रिष्टुब्देवोऽथ शंकरः
अग्नेरुत्तरभागे च हस्तमानांतरेपि च
मन्त्रस्य च ऋषिश्छन्दो वामदेवः प्रकीर्तितः
श्रीपर्णीसहकारोत्थं वरुणस्य विशेषतः
दैर्घ्येण च चतुःख्यातकांगुलं च प्रमाणतः
अभिचारे भवेत्कांस्यं ताम्रं स्याच्छांतिकर्मणि
द्वादशांगुलप्रस्तारं तैजसं मानवर्जितम्
सागरा अथ प्रीयंतामित्थमाध्यानमाचरेत्
नैर्ऋते दिक्षु सीतः स्याद्वैश्वदेवे तथैव च 2.2.13.
अस्य मंत्रस्य च ऋषिर्भरद्वाज उदाहृतः
प्रयोजनादिकं द्रव्यं तत आसादयेत्क्रमात्
ऋषिः स्यान्नारदश्छन्दोनुष्टुप्चैवाथ देवता
काष्ठं च पश्चिमे कुर्यात्प्रयच्छन्पश्चिमेन तु
दक्षिणे चैव आपूपं भृंगराजं तथैव च
पनसं नारिकेलं च मोदकं लड्डुकं तथा
प्रणीतां न स्पृशेज्जातु होमकाले कथंचन
उच्चीरकं मातुलिंगं दूर्वां धात्रीफलानि च
ऐशान्यां स्थापयेत्सर्वं यच्च वै कंकतीमयम्
यथायोगेन तत्सर्वं ग्राह्यं तत्पत्रमेव च 2.2.13.
पविवच्छेदनकुशैश्छिंद्यात्प्रादेशिकं पुनः
विष्णो रराटमंत्रेण छेदयेदग्रभागतः
न रसेन न कार्ष्णेन न दृढेन कदाचन
छेदयेत्पिञ्जुलीं चापि पवित्रमथ देशिकः
पंक्तिश्छंदो भवेद्देवः संस्कारे विनियोजयेत्
कायतीर्थेन तत्कुर्याद्देवतीर्थेन चेत्यपि
मध्यमामध्यमांगुष्ठ अपामार्गेण मंत्रिभिः
ऋषिः स्याद्गौतमश्छन्दो धर्मराजोऽथ देवता
सकृद्द्रव्ये त्रिभिः काष्ठैस्त्रिवारं मंत्रपुष्पकैः
प्रादेशांतरतश्चैव आज्यस्थालीमथार्पयेत् 2.2.13.
द्यूतं निःसारयेत्तत्तु निरूप्याशु क्रमेण तु