अथोनस्य च मन्त्रस्य वरिष्ठः परिकीर्तितः
कीशादग्निं समादाय मे गृह्णामीति संपठन् छन्दोनुष्टुप्समाख्यातं वामदेवोऽथ देवता
क्रव्यादग्निं परित्यज्य क्रव्यादमग्निमीरयन्
अस्य मन्त्रस्य हारीत ऋषिः स्याच्छन्द इष्यते
आवाहनं ततः कुर्यात्संसरक्षेति संजपन् विराट् छन्दोऽथ विज्ञेयो देवता च शतक्रतुः
वैश्वानर इति ऋचा अग्निस्थापनमीरितम् अनुष्टुप् च भवेच्छन्दो देवता हव्यवाहनः
बध्नासीति च मंत्रेण अग्निं कुर्यात्प्रदक्षिणम् देवता परमात्मा च नमस्कारेण योजयेत्
ततोग्निदक्षिणे भागे प्रागग्रकुशकुब्जके
ब्रह्मन्निहोपवेश्यतामिति ब्रह्माणं विनिवेशयेत् 2.2.13.
द्वाभ्यामिति च मन्त्राभ्यामिति ब्रह्मप्रवेशनम्
प्रजापतिर्ऋषिश्छन्दस्त्रिष्टुब्देवोऽथ शंकरः
अग्नेरुत्तरभागे च हस्तमानांतरेपि च
मन्त्रस्य च ऋषिश्छन्दो वामदेवः प्रकीर्तितः
श्रीपर्णीसहकारोत्थं वरुणस्य विशेषतः
दैर्घ्येण च चतुःख्यातकांगुलं च प्रमाणतः
अभिचारे भवेत्कांस्यं ताम्रं स्याच्छांतिकर्मणि
द्वादशांगुलप्रस्तारं तैजसं मानवर्जितम्
सागरा अथ प्रीयंतामित्थमाध्यानमाचरेत्
नैर्ऋते दिक्षु सीतः स्याद्वैश्वदेवे तथैव च 2.2.13.
अस्य मंत्रस्य च ऋषिर्भरद्वाज उदाहृतः
प्रयोजनादिकं द्रव्यं तत आसादयेत्क्रमात्
ऋषिः स्यान्नारदश्छन्दोनुष्टुप्चैवाथ देवता
काष्ठं च पश्चिमे कुर्यात्प्रयच्छन्पश्चिमेन तु
दक्षिणे चैव आपूपं भृंगराजं तथैव च
पनसं नारिकेलं च मोदकं लड्डुकं तथा
प्रणीतां न स्पृशेज्जातु होमकाले कथंचन
उच्चीरकं मातुलिंगं दूर्वां धात्रीफलानि च
ऐशान्यां स्थापयेत्सर्वं यच्च वै कंकतीमयम्
यथायोगेन तत्सर्वं ग्राह्यं तत्पत्रमेव च 2.2.13.
पविवच्छेदनकुशैश्छिंद्यात्प्रादेशिकं पुनः