त्रिवर्षांते गते तस्मिन्बलखानौ सुते शुभे
वत्सराजो ययौ देशे गुर्जरे च मदालसाम्। स सुतां च समादाय दिने तस्मिन्समागतः
प्राप्ते तस्मिन्वत्सराजे जम्बुकः स्वबलैर्वृतः
रुरोध नगरीं सर्वां राज्ञः परिमलस्य वै
माहिष्मतैः सप्तलक्षैः सार्द्धं युद्धमभून्महत्
शिवस्य वरदानेन भ्रात्रोर्जातः पराजयः
वेश्यां लक्षारतिं तस्य तं हतं तद्गजं तथा
गृहीत्वा नगरीं सर्वां भस्मयित्वा गृहं ययौ
दुर्गेषु यानि रत्नानि तानि प्राप्य मुदा ययौ
कृष्णांशं सप्तमास्यं हि चादधाद्दैवतप्रिया 3.3.9.
कल्पक्षेत्रं समागम्य कालिंद्यां तमपातयत्
सामन्तो नाम तं गृह्य श्वशुरालयमाययौ
भाद्रकृष्णाष्टमीसौम्ये ब्राह्मनक्षत्रसंयुते
श्यामांगः स च पद्माक्ष इंद्रनीलमणिद्युतिः
विस्मिता जननी तत्र दृष्ट्वा बालं तमद्भुतम्
उदयः किमहो जातो देवानां सूर्यरूपकः
कृष्णांशो भूतले जातः सर्वानन्दप्रदायकः
इत्याकाशवचः श्रुत्वा ते परं हर्ष माययुः
श्यामांगं सुन्दरं बालं सर्वलक्षणलक्षितम्
तदा तु नगरी सर्वा हर्षभूता बभूव ह 3.3.9.
ब्राह्मी तु सुषुवे पुत्रं पार्षदांशं महाबलम्
ब्राह्मणाश्च तदागत्य जातकर्म ह्यकारयन्
क्रमेण वर्द्धिता बालाः सर्वलोकशिवंकराः
तृतीयाब्दे वयः प्राप्ते कृष्णांशे बलवत्तरे
क्रीडन्स चन्दनारण्ये कृष्णांशो भ्रातृभिः सह
अश्विनी हरिणी दिव्या उच्चैःश्रवसमन्तिके
वर्षांतरे च सुषुवे कपोतं तनयं शुभम्
ब्राह्मणं शिवशर्माणं सर्वविद्याविशारदम्
अष्टाब्दे चैव कृष्णांशो नामपत्रादिकां क्रियाम्
सूत उवाच नवमाब्दं वयः प्राप्ते कृष्णांशो बलवत्तरः