अभिषेकं ततः कुर्यात्सुवास्त्विति च वै जपन्
पञ्चदोषं पुरस्कृत्य ब्राह्मणानुमतेन च
दीनांधकृपणे चैव दद्याद्वित्तानुसारतः
न क्षीरं च कषायं च भर्जितं शाकमेव च
शाल्यन्नं मूलकं चैव पनसाम्रफलानि च
बदरं धातकिफलं कुन्द पुष्पं तथा तिलम्
त्रिरात्रमथ सप्ताहं परित्यज्य खले ततः
प्रथमा चार्कहस्तेन द्वितीया दशहस्तिका 2.2.12.
शतार्धं ततः पश्चात्षष्टिहस्तमनंतरम्
अग्निहोत्रविधानवर्णनम् न परोक्तं विधानेन भयदं कीर्तिध्वंसनम्
पुत्रा एव च कन्याश्च जनिष्याश्चापरे सुताः
तेषां संस्कारयागेषु शान्तिकर्मक्रियासु च
त्रिकुशं परिगृह्णाति ततश्च कुरुते दृढम्
कश्यपस्तृप्यतामिति भूरसीति च शोधनम् देवता च भवेत्सूर्यः पृथिवीशोधने न्यसेत्
ऐशान्यादिक्रमेणैव प्रादक्षिण्येन यत्नतः
कुशगर्भत्रयेणापि भ्रामयेद्वलयाकृति
ईशानादेश्च संस्कारं कुर्यात्परिसमूहनम्
परिसमूहनमैन्द्रस्य पर्वतोऽस्य ऋषिः स्मृतः
गोमयं च त्रिगंधं च पंचमूर्तिकयापि च 2.2.13.
मानस्तोकेनेति ऋचा विश्वेदेवश्च पूज्यताम्
योजयेल्लेपयेद्विद्वान्घटमाबद्ध्य सत्तमाः
चतुरस्त्रीकृते क्षेत्रं हस्तमानं तथाननम्
दक्षे सार्धांगुलं त्यक्त्वा पश्चिमेन परित्यजेत्
आप्यायस्वेति मन्त्रस्य धन्वतरि ऋषिः स्मृतः
तल्लग्नं दक्षिणे चैकं पूर्वार्द्धद्वादशाङ्गुलम्
कुशमूलेन स्वर्णेन प्रतिष्ठायां च राजते
संस्मरेन्मित्रा वरुणौ ऋषिरौतथ्यसंज्ञकः
तेनैवोर्द्ध्वकरौ कुर्याद्दक्षवामे सकृत्सकृत्
सदसंपदृषिः कर्णो विराडिति उदाहृतः 2.2.13.
कुशपुष्पोदकेनापि देवतीर्थेन सत्तमाः पञ्चपल्लवतोयेन महायोगे विशेषतः