ऋषिः कंठोथ गायत्री छन्द इत्यभिधीयते
विवरे पूजयेत्कर्म ब्रह्माणं च धराधरम्
अग्रतोऽष्टदलं लेख्यं स्थापयेत्कलशं ततः
शुक्तिशंखसमं वापि विश्वामित्रसमुद्भवम्
विष्णुक्रांता वचाकुष्ठचन्दनेन विलोडितम्
दध्यक्षतं मधुयुतमेवमर्घ्यं च साधयेत्
अव्रणं कलशं कृत्वा पञ्चवर्णसमन्वितम्
आयाहि भगवन्देव तोयमूर्ते जलेश्वर 2.2.12.
गृहेभ्यश्चैव सोमाय त्वष्ट्रे चैव च शूलिने
ततोर्घ्यदानं विधिवत्क्षीरेण हविषा मधु
हिरण्यगर्भेति मंत्रस्य भरद्वाजऋषिः स्मृतः
वरुणस्योत्तंभनेति मंत्रस्य जलकुंभं निवेदयेत् विराट्छन्दश्च ईशानो देवता समुदाहृता
मोचयेन्मीनयुग्मं च मेषयुग्मं तथैव च
मोचयेन्नागयुग्मं च आयुवृद्धेश्च हेतवे
निर्मितं माषभक्तेन रक्तपुष्पैरलंकृतम् सबिंदुकेन हंतेन दिक्षु मध्ये यथा क्रमात्
ये भवा भाविनो भूता ये च तेषु मयासिनः
इत्युक्त्वा च बलिं दद्यान्नमस्कुर्यादनंतरम्
अन्येषां हि हिरण्यं च गां च दद्याद्द्विजन्मने 2.2.12.
प्राजापत्यं स्विष्टकृच्च जुहुयात्तदनंतरम्
पद्मोत्पलैर्मातुलिंगैः पनसैर्मातुलुंगकैः
अभिषेकं ततः कुर्यात्सुवास्त्विति च वै जपन्
पञ्चदोषं पुरस्कृत्य ब्राह्मणानुमतेन च
दीनांधकृपणे चैव दद्याद्वित्तानुसारतः
न क्षीरं च कषायं च भर्जितं शाकमेव च
शाल्यन्नं मूलकं चैव पनसाम्रफलानि च
बदरं धातकिफलं कुन्द पुष्पं तथा तिलम्
त्रिरात्रमथ सप्ताहं परित्यज्य खले ततः
प्रथमा चार्कहस्तेन द्वितीया दशहस्तिका 2.2.12.
शतार्धं ततः पश्चात्षष्टिहस्तमनंतरम्
अग्निहोत्रविधानवर्णनम् न परोक्तं विधानेन भयदं कीर्तिध्वंसनम्