असुराय मोदकांश्चैव दद्यादापिक्षये सुराम्
रोगाय घृतलड्डूकं सपायसगुडौदनम्
सोमाय मधुशाल्यन्नं नागाय गुडपिष्टकम्
दित्यै दद्यात्तथा क्षीरं सितशर्करया सह
सावित्र्यै लड्डुकान्नं च सवित्रे च गुडौदनम् 2.2.11.
विरूपाय च तद्दद्याद्धरिद्रान्नं तथैव च
मांसौदनं यक्ष्मणे च कृशरं वरुणाय च
चित्रौदनं समांसं च मत्स्यान्नं गुडपिष्टकम् तीर्थतोयसमायुक्तं सुगन्धेन समन्वितम्
पताका देववर्णेन दद्याद्ब्रह्मादिषु क्रमात्
पुरुषस्तवस्य सूर्य ऋषिर्जगती छन्दः
नारायणो नरो हंसो विष्वक्सेनो हुताशनः
यज्ञेशः पुण्डरीकाक्षः कृष्णः सूर्यः सुरार्चितः
पद्मनाभो हृषीकेशो दाता दामोदरो हरिः
भक्तप्रियोऽच्युतः सत्यः सत्यवाक्यो ध्रुवः शुचिः
विदारी विनयः शांतस्तपस्वी वैद्युतप्रभः 2.2.11.
त्वं स्वधा त्वं हि स्वाहा त्वं सुधा च पुरुषोत्तमः अनंतायाप्रमेयाय नमस्ते गरुडध्वज
ब्रह्मस्तवमिमं प्रोक्तं महादेवेन भाषितम्
ध्यायंति ये नित्यमनंतमच्युतं हृत्पद्ममध्ये स्वयमाव्यवस्थितम्
अर्घ्यदानविधिवर्णनम् कनकतोयेन गन्धेन मुद्गलाग्रेण लेपयेत्
ऐशान्यां मध्यभागे वा यजेद्वा सुसमाहितः
ऋषिः कंठोथ गायत्री छन्द इत्यभिधीयते
विवरे पूजयेत्कर्म ब्रह्माणं च धराधरम्
अग्रतोऽष्टदलं लेख्यं स्थापयेत्कलशं ततः
शुक्तिशंखसमं वापि विश्वामित्रसमुद्भवम्
विष्णुक्रांता वचाकुष्ठचन्दनेन विलोडितम्
दध्यक्षतं मधुयुतमेवमर्घ्यं च साधयेत्
अव्रणं कलशं कृत्वा पञ्चवर्णसमन्वितम्
आयाहि भगवन्देव तोयमूर्ते जलेश्वर 2.2.12.
गृहेभ्यश्चैव सोमाय त्वष्ट्रे चैव च शूलिने
ततोर्घ्यदानं विधिवत्क्षीरेण हविषा मधु