श्रीफलं बीजपूरं च नालिकेरं च दाडिमम्
पञ्चरक्तं सुवर्णं च निक्षिपेद्वरुणं यजेत्
उद्वर्तन इति मन्त्रेण वरुणं च पुनर्यजेत्
अस्य मंत्रस्य च ऋषिर्विष्णुश्छन्द उदाहृतम्
पञ्चगंधान्विनिक्षिप्य हस्तं दत्त्वा पठेत्ततः ।। 2.2.11.
सर्वे समुद्राः सरितः सरांसि च महाह्रदाः
गंगाद्याः सरितः सर्वास्तीर्थानि जलदाः नदाः
अघोराज्यष्टककृता वास्तोष्पतय इत्यपि
शतार्धं वा हुनेद्विप्रस्तिलैर्वा तंडुलैः सह
पयोदध्यादिभिर्वापि मध्वाज्यैर्वा विशिष्यते
अष्टाविंशतिभिश्चान्यैरष्टाष्टौ पंचपंच वा
चरक्यादींश्चासनैश्च पिष्टकैर्वटकेन वा
वास्तोष्पते दृढं जप्त्वा यजेद्वास्तुपतिं यदा
बलिमासादयेत्पश्चाद्दद्यादेकैकशः क्रमात्
शाल्यन्नं शिखिने दद्यात्तथा नीलोत्पलानि च 2.2.11.
जयाय पिष्टकं कार्यमिन्द्राय घृतमोदकः
भ्रमाय मत्स्यमांसान्नं शष्कुलीमथ पिष्टकम्
वितथाय कलायान्नं गृहर्क्षाय समाक्षिकम्
गन्धर्वाय कस्तूरिकान्नं कृशरं भृंगराजके
दौवारिकाय कृशराननडुंहे च पूपकम्
असुराय मोदकांश्चैव दद्यादापिक्षये सुराम्
रोगाय घृतलड्डूकं सपायसगुडौदनम्
सोमाय मधुशाल्यन्नं नागाय गुडपिष्टकम्
दित्यै दद्यात्तथा क्षीरं सितशर्करया सह
सावित्र्यै लड्डुकान्नं च सवित्रे च गुडौदनम् 2.2.11.
विरूपाय च तद्दद्याद्धरिद्रान्नं तथैव च
मांसौदनं यक्ष्मणे च कृशरं वरुणाय च
चित्रौदनं समांसं च मत्स्यान्नं गुडपिष्टकम् तीर्थतोयसमायुक्तं सुगन्धेन समन्वितम्
पताका देववर्णेन दद्याद्ब्रह्मादिषु क्रमात्
पुरुषस्तवस्य सूर्य ऋषिर्जगती छन्दः