दृष्ट्वा परिश्रुत इति मन्त्रेणानेन पूजयेत्
रुद्रं ध्यायेद्रक्तवर्णं शीतांशुकृतशेखरम्
दिवो मूर्धन्निति मन्त्रेण ऋषयः समुदाहृताः
स्वयं देवो विनियोगः स्तुतौ च विनियोजयेत्
अस्य किरीट इति मन्त्रेण रक्तस्रक्चन्दनादिभिः त्रिष्टु्प्छन्दो देवता स्याद्ध्रदोपि परिकीर्तितः
सवितारं तथा ध्यायेत्पद्मस्थं द्विभुजप्रभुम् 2.2.11.
यद्देवा इति मन्त्रेण गन्धाद्यैः परिपूजयेत्
ध्यायेद्रक्तं विवस्वन्तं द्विभुजं पद्मविग्रहम्
ऋषिर्गन्धः समाख्यातस्त्रिष्टुप्छन्दश्च ईरितम्
विबुधाधिपं ततो ध्यायेत्पीतं वृषभवाहनम् त्रिनेत्रं रक्तवस्त्रं च मुकुटाद्यैरलंकृतम्
ऋषिर्हारीत इत्युक्तो जगतीच्छन्द ईरितम्
मित्रं ध्यायेच्छुक्लवर्णं वराभयकरं परम्
ऋषिरौतथ्य इत्युक्तो जगती छन्द ईरितम्
पीतास्यं राजयक्ष्याणं करालं च विचिंतयेत्
दध्यङ्ङाथर्वण ऋषिर्गायत्री छन्द ईरितम् 2.2.11.१ १
शुक्लांबरधरं ध्यायेद्द्विभुजं शिखिवाहनम्
ऋषिः स्यान्नारदः प्रोक्तश्छन्दोनुष्टुप्प्रकीर्तितम्
एवं ध्यात्वा विवस्वंतं महाकायं महोदरम्
काश्यपोस्य ऋषिश्छन्दस्त्रिष्टुब्देवः शचीपतिः
बहिरीशानकोणेषु देवादीन्परिपूजयेत्
पीतां करालिकां ध्यायेच्चरकीं वरवर्णिनीम्
पीतिन्यरूपमन्त्रेण पूजयेद्भूतिमिच्छुकः
ध्यायेद्विदारिकां रक्तां नवयौवनसंयुताम्
ऋषिर्गर्गः समाख्यातस्त्रिष्टुप्छन्दोस्य देवता
पापादिराक्षसीं ध्यायेत्सौरभेयोपरिस्थिताम् 2.2.11.
ऋषिः सुवर्ण आख्यातः पङ्क्तिश्छन्दः प्रकीर्तितम्
कुण्डवेद्या अंतरे च स्थापवेद्विधिवद्बुधः
वल्मीके संगमे चैव राजद्वारचतुष्पथात्
इन्द्रवल्ली तथाक्रांत अमृती त्रपुषस्य च
पारिभद्रस्य पत्रैश्च परितः परिवेष्टनम्