पश्चदीशेति मन्त्रेण गन्धाद्यैः परिपूजयेत्
मन्त्रश्चास्य ऋषिश्चास्य पञ्चायत नमीरितम्
श्यामवर्णां दितिं ध्यायेद्द्विभुजां पीतविग्रहाम्
सुपर्णोऽसीति मन्त्रेण पूजयेत्पीतचन्दनैः
ऋषिर्नारायणश्छन्दो जगती परिकीर्त्यते
रक्ताभामदितिं ध्यायेत्सर्वालंकारभूषिताम्
वामदेव ऋषिश्चास्य गन्धाद्यैरभिपूजयेत् । देवः शुक्रः समाख्यातः स्तुतौ च विनियोजयेत् । । ८७ ईशानादिकोणगतान्पूजयेत्सुसमाहितः । आपं ध्यायेच्छुक्लवर्णं कुण्डलाद्यैर्विभूषितम् । । ८८ इदं विष्णुरिति मन्त्रेण त्रिगन्धेन समर्चयेत् । । ८९ ऋषिः स्यात्कर्दमश्छन्दो विराडित्यभिधीयते । । 2.2.11.९० देवः सोमः समाख्यातः प्रीतये विनियोजयेत्
पयसा शुक्ल इति मन्त्रेण पूजयेत्कमलादिना
नारायण ऋषिश्चास्य पंक्तिश्छन्दः प्रकीर्त्यते
जयं ध्यायेत्पीतवर्णं द्विभुजं वरहस्तकम्
दृष्ट्वा परिश्रुत इति मन्त्रेणानेन पूजयेत्
रुद्रं ध्यायेद्रक्तवर्णं शीतांशुकृतशेखरम्
दिवो मूर्धन्निति मन्त्रेण ऋषयः समुदाहृताः
स्वयं देवो विनियोगः स्तुतौ च विनियोजयेत्
अस्य किरीट इति मन्त्रेण रक्तस्रक्चन्दनादिभिः त्रिष्टु्प्छन्दो देवता स्याद्ध्रदोपि परिकीर्तितः
सवितारं तथा ध्यायेत्पद्मस्थं द्विभुजप्रभुम् 2.2.11.
यद्देवा इति मन्त्रेण गन्धाद्यैः परिपूजयेत्
ध्यायेद्रक्तं विवस्वन्तं द्विभुजं पद्मविग्रहम्
ऋषिर्गन्धः समाख्यातस्त्रिष्टुप्छन्दश्च ईरितम्
विबुधाधिपं ततो ध्यायेत्पीतं वृषभवाहनम् त्रिनेत्रं रक्तवस्त्रं च मुकुटाद्यैरलंकृतम्
ऋषिर्हारीत इत्युक्तो जगतीच्छन्द ईरितम्
मित्रं ध्यायेच्छुक्लवर्णं वराभयकरं परम्
ऋषिरौतथ्य इत्युक्तो जगती छन्द ईरितम्
पीतास्यं राजयक्ष्याणं करालं च विचिंतयेत्
दध्यङ्ङाथर्वण ऋषिर्गायत्री छन्द ईरितम् 2.2.11.१ १
शुक्लांबरधरं ध्यायेद्द्विभुजं शिखिवाहनम्
ऋषिः स्यान्नारदः प्रोक्तश्छन्दोनुष्टुप्प्रकीर्तितम्
एवं ध्यात्वा विवस्वंतं महाकायं महोदरम्
काश्यपोस्य ऋषिश्छन्दस्त्रिष्टुब्देवः शचीपतिः
बहिरीशानकोणेषु देवादीन्परिपूजयेत्