ऋषिश्चागस्तिराख्यातस्त्रिष्टुप्छन्दः प्रकीर्तितम्
पीतं मृगं मृगारूढं जटामुकुटमंडितम्
कपिलश्च ऋषिः प्रोक्तो गायत्री छन्द ईरितम्
ध्यायेत्पितृगणं शुक्रं चतुर्भिर्बाहुभिर्वृतम्
शुनःशेप ऋषिश्चास्य त्रिष्टुप्छन्दश्च देवता
दौवारिकं चाष्टभुजं कृष्णवर्णं विचिन्तयेत्
यो नः पितेति मन्त्रेण पूजयेद्भक्तितत्परः
वैश्वानर ऋषिश्चास्य गायत्री छन्द ईरितम्
शंखाभं चैव सुग्रीवं द्विभुजं चक्रधारिणम्
शंखपद्मधरं चैव महिषस्थं विचिन्तयेत् 2.2.11.
ऋषिः शंखस्तथाच्छन्दः पङ्क्तिः सोमोऽथ देवता
ऋष्यासनगतं ध्यायेच्छ्वेतगन्धेन चर्चयेत्
त्र्यंबकोऽस्य ऋषिस्त्रिष्टुप्छन्दो देवो जलाधिपः
दशभिर्बाहुभिर्युक्तं कृष्णवस्त्रानुलेपनम्
ऋषिर्वैश्वानरश्छन्दो विराडित्यभिधीयते
शेषं षडाननं ध्यायेत्कृष्णं च मधुपिंगलम् उद्वर्ष इति मन्त्रेण पूजयेद्भूतिमिच्छता
पापं रक्तं त्रिनेत्रं च रक्तं प्रान्ते विचिन्तयेत्
सिद्धो वीरेति मन्त्रेण कृष्णपुष्पैरथार्चयेत्
कपिलोऽस्य ऋषिश्छन्दोऽनुष्टुप् चैव प्रकीर्तितम्
यमं च कृकराक्षं च क्षमाकुञ्चितमूर्धजम् खरस्थं द्विभुजं ध्यायेदिमं मन्त्रमुदीरयेत् ।। 2.2.11.
वासुकिः स्यादृषिश्चास्य पंक्तिश्छन्दश्च देवता
अर्धपीतं च द्विभुजं रक्ताक्षं धूम्रमेव वा
ऋषिर्वायुश्च गायत्री छन्दो वायुश्च देवता
मुग्धरक्तं शंखचक्रगदापद्मधरं तथा
अवसृष्टा परापत इति मन्त्रेण पूजयेत्
पीतं भल्लाटकं ध्यायेत्पद्मस्थं रक्तभूषणम् यन्मातुरिति मन्त्रेण पूजयेत्सिततंडुलैः
जम्भकोऽस्य ऋषिश्छन्दो गायत्री समुदाहृता
सोमं ध्यायेच्छ्यामरूपं पद्मासनगतं परम् मर्माणितेति मन्त्रेण गन्धाद्यैरपि पूजयेत्
ऋषिः स्वार्थो वेदश्छन्दो जगतीत्यभिधीयते
दर्पं ध्यायेत्कृष्णवर्णं कृष्णांबरधरं तथा 2.2.11.