राजान इति च ऋचा पूजयेद्गन्धचन्दनैः देवता च भवेद्वायुः प्रीतये विनियोजयेत्
वितथं श्यामवर्णं च चतुर्भिर्बाहुभिर्वृतम् मेषारूढं विशालाक्षं राजानो मह्यमीरयन्
गृहक्षतं तथा शुक्लं चतुर्भिर्गर्दभैर्वृतम्
पीतवस्त्रधरं देवं जटामुकुटसंयुतम्
पुष्पदंत ऋषिस्त्रिष्टुप्छन्दश्च परिकीर्तितम्
यमं ध्यायेत्कृष्णवर्णं महिषस्थं द्विबाहुकम्
ईशानेति च मन्त्रेण पूजयेत्कुसुमादिना
षडाननं च गन्धर्वं पीतं ध्यायेच्चतुर्भुजम्
यद्देव इति मन्त्रेण पूजयेत्कुसुमादिना हिरण्यगर्भो देवतास्य प्रीतये विनियोजयेत्
भृङ्गराजं जटारूढं स्वच्छं पीतांबरं शुभम् 2.2.11.
ऋषिश्चागस्तिराख्यातस्त्रिष्टुप्छन्दः प्रकीर्तितम्
पीतं मृगं मृगारूढं जटामुकुटमंडितम्
कपिलश्च ऋषिः प्रोक्तो गायत्री छन्द ईरितम्
ध्यायेत्पितृगणं शुक्रं चतुर्भिर्बाहुभिर्वृतम्
शुनःशेप ऋषिश्चास्य त्रिष्टुप्छन्दश्च देवता
दौवारिकं चाष्टभुजं कृष्णवर्णं विचिन्तयेत्
यो नः पितेति मन्त्रेण पूजयेद्भक्तितत्परः
वैश्वानर ऋषिश्चास्य गायत्री छन्द ईरितम्
शंखाभं चैव सुग्रीवं द्विभुजं चक्रधारिणम्
शंखपद्मधरं चैव महिषस्थं विचिन्तयेत् 2.2.11.
ऋषिः शंखस्तथाच्छन्दः पङ्क्तिः सोमोऽथ देवता
ऋष्यासनगतं ध्यायेच्छ्वेतगन्धेन चर्चयेत्
त्र्यंबकोऽस्य ऋषिस्त्रिष्टुप्छन्दो देवो जलाधिपः
दशभिर्बाहुभिर्युक्तं कृष्णवस्त्रानुलेपनम्
ऋषिर्वैश्वानरश्छन्दो विराडित्यभिधीयते
शेषं षडाननं ध्यायेत्कृष्णं च मधुपिंगलम् उद्वर्ष इति मन्त्रेण पूजयेद्भूतिमिच्छता
पापं रक्तं त्रिनेत्रं च रक्तं प्रान्ते विचिन्तयेत्
सिद्धो वीरेति मन्त्रेण कृष्णपुष्पैरथार्चयेत्
कपिलोऽस्य ऋषिश्छन्दोऽनुष्टुप् चैव प्रकीर्तितम्
यमं च कृकराक्षं च क्षमाकुञ्चितमूर्धजम् खरस्थं द्विभुजं ध्यायेदिमं मन्त्रमुदीरयेत् ।। 2.2.11.