श्वेतं चतुर्भुजं शांतं कुण्डलाद्यैरलंकृतम्
पितृवैश्वानरोपेतं कुटिलभ्रूपशोभितम्
thumb|500px|वास्तुपुरुष thumb|500px|वास्तुपुरुषः. मूर्धन्यग्निं समाविश्य मुखे वायुः समाहितः
वक्षस्थले ऽपरां संध्यां यजेच्चैव यथाविधि
सर्पेन्द्रावासनस्थौ च वामे दक्षं विभावयेत्
रुद्रश्च राजयक्ष्मा च वामहस्ते व्यवस्थितौ
उभौ ज्ञेयौ तथा जान्वोरुभौ गन्धर्वपुष्पकौ
जयशक्रौ तथा मेढ्रे पदयोः पितरस्तथा
मन्दरं दीर्घयुक्तेन षडङ्गानि समाचरेत्
वास्त्वीशाय विद्महेति तन्नो विष्णुः प्रचोदयात् 2.2.11.
आसनं पूजयेत्पूर्वं धर्मेणापि स्वशक्तितः
आधारशक्तिं पृथिवीं पूजयेत्तत्र पङ्कजम्
सितचन्दनयुक्तेन श्वेतपुष्पं प्रगृह्य च
आवाह्य चासनं दद्यात्ततः पाद्यादिकत्रयम्
अस्य मन्त्रस्य च ऋषिश्छन्दो गायत्रमीरितम्
मंदरं विजयं सोमं महादेवं च माधवम्
जया च विजया चैव सत्या माया शिवांबिका
पुष्पाञ्जलित्रयं दद्याद्वास्तोष्पतय इत्यपि
वास्तोष्पते भव मते इति ध्यात्वा ऋतं चेति मंत्रेण पूजयेत्
सूर्यश्च देवता ख्यातः प्रीणितः कुलिशायुधः 2.2.11.
रक्तपद्मद्वयधरं कुंडलाद्यैः सुशोभितम्
हंसस्य इति मंत्रस्य ऋषिरौतथ्य ईरितः
नीलोत्पलद्वयधरं सत्यं मृत्यूपरिस्थितम्
स्वं मदात्वमिति मन्त्रेण श्वेतचन्दनपुष्पकैः
उद्धर्षण इति मंत्रेण कृष्णपुष्पैरथार्चयेत् सविता चैव विज्ञेयः प्रीतये च वृषस्य च
शुल्कवर्णं तथाकाशमृष्टिसंघैश्च संस्तुतम्
शन्नो देवीति पठनाद्गन्धपुष्पादिभिर्यजेत् देवता च भवेच्चाग्निराकाशप्रीतये न्यसेत्
ध्वजहस्तमहाबाहुं मरुद्भिश्चोपसेवितम्
राजान इति मन्त्रेण पूजयेत्सिततंडुलैः
देवता च भवेद्वायुः प्रीतये तस्य योजयेत् 2.2.11.