पूजाक्रमवर्णनम् उत्तरे पश्चिमे वाथ पूर्वे चापि समाचरेत्
नदीतीरे नेमिप्रांते दशद्वादशसंख्यया
त्रिभागं विभजेत्क्षेत्रं मध्यभागद्वयेन तु
उत्तराशे दक्षिणे चारत्निहस्तांतरेऽपि च
मूले सार्धं च शुक्लां च मेखलां तु तथैव च
षट्सप्तांगुलिकां योनिं पश्चिमे मेखलोपरि
श्राद्धं वृद्ध्यात्मकं कुर्यात्संकल्पं मानसं चरेत्
गयाश्राद्धार्थकं चाष्टतीर्थश्राद्धार्थमेव च
मध्ये कुण्डे महांश्चैव विष्णुदेवं दिगीश्वरान्
प्राणायामं विधायाथ भूतशुद्धिं समाचरेत् 2.2.11.
श्वेतं चतुर्भुजं शांतं कुण्डलाद्यैरलंकृतम्
पितृवैश्वानरोपेतं कुटिलभ्रूपशोभितम्
thumb|500px|वास्तुपुरुष thumb|500px|वास्तुपुरुषः. मूर्धन्यग्निं समाविश्य मुखे वायुः समाहितः
वक्षस्थले ऽपरां संध्यां यजेच्चैव यथाविधि
सर्पेन्द्रावासनस्थौ च वामे दक्षं विभावयेत्
रुद्रश्च राजयक्ष्मा च वामहस्ते व्यवस्थितौ
उभौ ज्ञेयौ तथा जान्वोरुभौ गन्धर्वपुष्पकौ
जयशक्रौ तथा मेढ्रे पदयोः पितरस्तथा
मन्दरं दीर्घयुक्तेन षडङ्गानि समाचरेत्
वास्त्वीशाय विद्महेति तन्नो विष्णुः प्रचोदयात् 2.2.11.
आसनं पूजयेत्पूर्वं धर्मेणापि स्वशक्तितः
आधारशक्तिं पृथिवीं पूजयेत्तत्र पङ्कजम्
सितचन्दनयुक्तेन श्वेतपुष्पं प्रगृह्य च
आवाह्य चासनं दद्यात्ततः पाद्यादिकत्रयम्
अस्य मन्त्रस्य च ऋषिश्छन्दो गायत्रमीरितम्
मंदरं विजयं सोमं महादेवं च माधवम्
जया च विजया चैव सत्या माया शिवांबिका
पुष्पाञ्जलित्रयं दद्याद्वास्तोष्पतय इत्यपि
वास्तोष्पते भव मते इति ध्यात्वा ऋतं चेति मंत्रेण पूजयेत्
सूर्यश्च देवता ख्यातः प्रीणितः कुलिशायुधः 2.2.11.