जयन्तं श्वेतं श्वेतवृषभारूढं ध्यात्वा
शुक्लं पीतं द्विभुजमैरावतस्थं वज्रधरं ध्यात्वा मूलबीजेन स्थापयेत्
भास्करं रक्तद्विभुजं रक्ताश्वस्थं ध्यात्वा मायाबीजेन पूजयेत्
सत्यं च द्विभुजं श्वेतं त्रिनेत्रं पीतवाससं मन्दकुंदबीजेन पूजयेत्
ऋक्षं नीलं चतुर्भुजं महिषारूढम्
अग्निमारभ्य पूजयेत् अग्निदूतमिति मंत्रस्य भरद्वाज ऋषिस्त्रिष्टुच्छन्दः शंकरो देवता अग्निप्रीतये विनि योगः
वितथं रक्तमजवाहनं द्विभुजं ध्यात्वा गायत्र्या पूजयेत्
गायत्र्या विश्वामित्र ऋषिर्गायत्रीछन्दः सविता देवता वितथप्रीतये विनियोगः ।।2.2.10.
यमं कृष्णमहिषारूढं दण्डहस्तं ध्यायेत्
गृहे क्षेत्रं रक्तमूर्ध्वकेशं महाभुजं रक्तवाससं ध्यात्वा वह्निबीजेन पूजयेत्
गन्धर्वं श्वेतं द्विभुजं पद्मासनस्थं ध्यात्वा यमबीजेन पूजयेत्
भृङ्गराजं रक्तसिंहासनारूढं दिव्ययज्ञोपवीतिनं ध्यायेत्
होता यस्केति मन्त्रस्य भार्गव ऋषिर्गायत्रीछन्दो यशो देवता भृंगराजप्रीतये विनियोगः
मृगं पीतं मृगारूढं पीतवाससं ध्यात्वा
नैर्ऋतार्द्धपदेषु च कैदाचनेति मन्त्रस्य पंक्तिश्छन्दः सविता देवता निर्ऋतिप्रीतये विनियोगः
नैर्ऋतार्द्धपदेषु च दौवारिकं श्वेतशरभारूढं त्रिनेत्रं सर्वाभरणभूषितं ध्यात्वा
श्यामं सुग्रीवं कृष्णमेषारूढं पीतवाससं ध्यात्वा
सुमित्रिया न इति मन्त्रस्य कन्दर्पऋषिः पङ्क्तिश्छन्दः सूर्यो देवता वरुणप्रीतये विनियोगः ।। 2.2.10.
पुष्पदंतं पीतं मेषारूढं पीतवाससं ध्यात्वा
असुरं कृष्णं कृष्णमाल्यैरलंकृतं कृत्वा
असुरं कृष्णं नागहारान्वितं पद्मासनस्थं ध्यात्वा
रोगं कृष्णं नीलेन्दीवरधरं श्वेतवृषभारूढं ध्यात्वा
वायुकोणादारभ्य पूजयेत् देवा इति मन्त्रस्य बृहती छन्दो यमो देवता नागप्रीतये विनियोगः
श्वेतं सोमं श्वेतवर्णासनस्थं ध्यात्वा भद्रबीजेन पूजयेत्
रक्तं भल्लाटं पीतवाससं ध्यात्वा वह्निबीजेन पूजयेत्
रक्तां दितिं नागहारान्वितां रक्तपद्मासनस्थां ध्यात्वा
मानो त्वा इति मंत्रस्य भार्गव ऋषिः पंक्तिश्छन्दः पृथिवी देवता दितिप्रीतये विनियोगः
अदितिं पीतवर्णां सिंहारूढां पीतांबरधरां ध्यात्वा 2.2.10.
एवं यथा विधायाथ होमं कुर्याद्यथाविधि
तडागयागपक्षे तु सुवर्णं चार्धमेव वा