त्रातारमिति मंत्रस्य भार्गव ऋषिस्त्रिष्टुप् छन्दो नरसिंहो देवता इन्द्रजयप्रीतये विनियोगः
रुद्रं ध्यायेच्छ्वेतवर्णं वृषभारूढविग्रहम्
नमस्ते रुद्रेति मंत्रस्य गायत्री छंदस्त्र्यंबको देवता रुद्रप्रीतये विनियोगः
रक्तं रुद्रं जयं ध्यायेद्रक्तपद्मोपरि स्थितम्
त्र्यंबकमिति मन्त्रस्य गायत्रीच्छन्दो महेशो देवता रुद्रजयप्रीतये विनियोगः
अपि श्वेतं ततो ध्यायेद्वराभयकरं परम्
ईशान इति मंत्रस्य मरीचिर्ऋषिः पंक्तिच्छन्दो वायुर्देवता अपां प्रीतये विनियोगः
पद्मशंखधरं वामे वराभयकरं परम्
वरुणस्योत्तंभनमसीति मन्त्रस्य नरोत्तम ऋषिर्विराट् छन्दो वरुणो देवता आवयः प्रीतये विनियोगः ।।2.2.10.
कोणसूत्रस्योभयतः श्वेतकोष्ठद्वये पुनः
माला स्वाहेति मंत्रस्य भार्गव ऋषिर्गायत्रीछन्दो महादेवो देवता शर्वप्रीतये विनियोगः
गुहं ध्यायेत्पीतवर्णं पीतपद्मासनस्थितम
स बोध इति मन्त्रस्य अगस्तिर्ऋषिर्गायत्री छन्दो हरो देवता गुहप्रीतये विनियोगः
अर्यम्णं द्विभुजं रक्तं रक्तमाल्योपशोभितम्
वातो वारेति मंत्रस्य काश्यप ऋषिरनुष्टुप्छन्दो वायुर्देवता अर्यमप्रीतये विनियोगः
ध्यायेच्च जम्भकं श्वेतं द्विभुजं कुटिलाननम्
कुविदोगवय इति मन्त्रस्य विश्वामित्र ऋषिर्जगती छन्दः सोमो देवता जंभकप्रीतये विनियोगः
पिलपिच्छं रक्तवर्णं रक्तमाल्यैरलङ्कृतम् 2.2.10.
देवस्य हेति मन्त्रस्य पंक्तिश्छंदः शची देवता पिलपिच्छप्रीतये विनियोगः
पीतां च चरकीं ध्यायेद्रक्तमाल्यैरलंकृताम्
तद्वर्षं इति मन्त्रस्य जटिल ऋषिर्बृहती छन्दो भवो देवता चरकीप्रीतये विनियोगः
श्यामां विदारिकां ध्यायेत्त्रिनेत्रां च चतुर्भुजाम्
श्रीश्च ते इति मन्त्रस्य वरुण ऋषिर्नृसिंहो देवता विदारिकाप्रीतये विनियोगः
रक्तां च पूतनां ध्यायेत्पङ्कजस्थां सुशोभनाम्
मयि गृह्णामीति मंत्रस्य विवस्वानृषिर्नारायणो देवता पूतनाप्रीतये विनियोगः
पूर्वादिदिक्षु सर्वासु सार्धाद्यंतपदेषु च
त्रिनेत्रं वृषभारूढं नागहारो पशोभितम्
आयुःशीर्षाण इति मंत्रस्य वामदेव ऋषिर्बृहती छन्दो धरणीधरो देवता ईशानप्रीतये विनियोगः ।। 2.2.10.
रक्तं ध्यायेच्च पर्जन्यं द्विभुजं पीतवाससम्
कयानश्चेति मन्त्रस्य धर्म ऋषिर्बृहती छन्दो भवो देवता पर्जन्य प्रीतये विनियोगः