विवस्वंतं पीतवर्णं पीताम्बरधरं शुभम्
एतातविषंतीति मंत्रस्य कर्दम ऋषिः पंक्तिश्छन्दः कमलादेवताविवस्वत्प्रीतये विनियोगः
मित्रं ध्यायेच्छुक्लवर्णं श्वेतहंसोपरिस्थि तम्
कयानश्चीति मंत्रस्य जयंत ऋषिर्गायत्री छन्दः शङ्करो देवता मित्रप्रीतये विनियोगः
प्रीतं महीधरं ध्यायेद्वृषभोपरि संस्थिम्
त्र्यम्बकमिति मंत्रस्य गर्गऋषिस्त्रिष्टुप् छन्दो हरो देवता महीधरप्रीतये विनियोगः
सावित्रीं श्वेतवर्णां च सर्वलक्षणसंयुताम्
रक्ताम्बरधरां रक्तां रक्तमालोपशोभिताम्
तद्वर्षं इति मंत्रस्य गौतम ऋषिर्विराट् छन्दः सूर्यो देवता सवितृप्रीतये विनियोगः ।। 2.2.10.
शक्रं ध्यायेत्पीतवर्णं शुक्लकैरावतस्थितम्
त्रातारमिति मंत्रस्य भार्गव ऋषिस्त्रिष्टुप् छन्दो नरसिंहो देवता इन्द्रजयप्रीतये विनियोगः
रुद्रं ध्यायेच्छ्वेतवर्णं वृषभारूढविग्रहम्
नमस्ते रुद्रेति मंत्रस्य गायत्री छंदस्त्र्यंबको देवता रुद्रप्रीतये विनियोगः
रक्तं रुद्रं जयं ध्यायेद्रक्तपद्मोपरि स्थितम्
त्र्यंबकमिति मन्त्रस्य गायत्रीच्छन्दो महेशो देवता रुद्रजयप्रीतये विनियोगः
अपि श्वेतं ततो ध्यायेद्वराभयकरं परम्
ईशान इति मंत्रस्य मरीचिर्ऋषिः पंक्तिच्छन्दो वायुर्देवता अपां प्रीतये विनियोगः
पद्मशंखधरं वामे वराभयकरं परम्
वरुणस्योत्तंभनमसीति मन्त्रस्य नरोत्तम ऋषिर्विराट् छन्दो वरुणो देवता आवयः प्रीतये विनियोगः ।।2.2.10.
कोणसूत्रस्योभयतः श्वेतकोष्ठद्वये पुनः
माला स्वाहेति मंत्रस्य भार्गव ऋषिर्गायत्रीछन्दो महादेवो देवता शर्वप्रीतये विनियोगः
गुहं ध्यायेत्पीतवर्णं पीतपद्मासनस्थितम
स बोध इति मन्त्रस्य अगस्तिर्ऋषिर्गायत्री छन्दो हरो देवता गुहप्रीतये विनियोगः
अर्यम्णं द्विभुजं रक्तं रक्तमाल्योपशोभितम्
वातो वारेति मंत्रस्य काश्यप ऋषिरनुष्टुप्छन्दो वायुर्देवता अर्यमप्रीतये विनियोगः
ध्यायेच्च जम्भकं श्वेतं द्विभुजं कुटिलाननम्
कुविदोगवय इति मन्त्रस्य विश्वामित्र ऋषिर्जगती छन्दः सोमो देवता जंभकप्रीतये विनियोगः
पिलपिच्छं रक्तवर्णं रक्तमाल्यैरलङ्कृतम् 2.2.10.
देवस्य हेति मन्त्रस्य पंक्तिश्छंदः शची देवता पिलपिच्छप्रीतये विनियोगः
पीतां च चरकीं ध्यायेद्रक्तमाल्यैरलंकृताम्