शुक्लशोणं पुनः श्वेतं सिंदूराभं प्रकीर्तितम्
शुक्लपीतं च श्वेतं च गौरं चेत्यष्टवर्णकम्
धरणीमदनं वाद्ये शंभुवर्णादिप्रक्रमात्
मध्येंते ऊनपञ्चाशत्सर्वं च वास्तुकर्मणि
महाकूपे तथा श्वेतो अन्यत्रापि प्रशस्यते
दश पूर्वायता रेखा दश चैवोत्तरायताः
सर्ववास्तुविभागेन विज्ञेया नवका नव
द्वात्रिंशद्बाह्यतः पूज्याः पूज्यागारे त्रयोदश
चतुर्दिक्षु षट्पदं तु त्रिपदं तु चतुष्पदम् चरक्यादि ततो हित्वा चत्वारिंशच्च पंचकम् 2.2.10.
अपरं मण्डलं वक्ष्ये यथावदनुपूर्वशः
द्विचतुष्कोष्ठकैर्दिक्षु यजेतार्यमणं ततः
कोणेषु कोष्ठद्वंद्वेषु बाह्यादिपरिकीर्तितम्
रुद्रं रुद्रजयं चैव वायुं जृंभकमेव च
क्रमादीशानपर्यंतां जयंतः शक्रभास्करौ
अग्निः पूषा च वितधो यमश्च गृहरक्षकः
निर्ऋतिर्दौवारिकश्च सुग्रीववरुणौ ततः
प्राणवायुश्च नागश्च सोमो भल्लाट एव च
मिलित्वा च त्रिपञ्चाशत्तेभ्यः पूर्वे बलिं हरेत्
रक्तमर्यमणं ध्यायेच्चतुर्भिर्बहुभिर्वृतम् 2.2.10.
आकृष्णेनेति मन्त्रस्य स्वर्ण ऋषिजगतीछन्दः सवित्रर्यमप्रीतये विनियोगः
विवस्वंतं पीतवर्णं पीताम्बरधरं शुभम्
एतातविषंतीति मंत्रस्य कर्दम ऋषिः पंक्तिश्छन्दः कमलादेवताविवस्वत्प्रीतये विनियोगः
मित्रं ध्यायेच्छुक्लवर्णं श्वेतहंसोपरिस्थि तम्
कयानश्चीति मंत्रस्य जयंत ऋषिर्गायत्री छन्दः शङ्करो देवता मित्रप्रीतये विनियोगः
प्रीतं महीधरं ध्यायेद्वृषभोपरि संस्थिम्
त्र्यम्बकमिति मंत्रस्य गर्गऋषिस्त्रिष्टुप् छन्दो हरो देवता महीधरप्रीतये विनियोगः
सावित्रीं श्वेतवर्णां च सर्वलक्षणसंयुताम्
रक्ताम्बरधरां रक्तां रक्तमालोपशोभिताम्
तद्वर्षं इति मंत्रस्य गौतम ऋषिर्विराट् छन्दः सूर्यो देवता सवितृप्रीतये विनियोगः ।। 2.2.10.
शक्रं ध्यायेत्पीतवर्णं शुक्लकैरावतस्थितम्