मित्रोऽथ राजयक्ष्मा च सप्तमः पृथिवीधरः
पूर्वादिषु तथा पूज्या गन्धपुष्पैः पृथग्विधैः
मिलित्वा ऊनपञ्चाशदुत्तमा वास्तुदेवताः
बहिः कोणे चरक्यादि चरकं च विदारिकाम्
स्वैःस्वैर्मंत्रैश्च गंधाद्यैः पूजयेत्कुसुमादिना
रेखाः सर्वत्र शुक्लेन पद्मं रक्तेन भावयेत्
देववर्णानथो वक्ष्ये यथावदनुवर्णिताः
पीतः शुक्लश्च धर्मश्च पूषा रक्तः प्रकीर्तितः
पीतो भृंगः पुनः शुक्लः कृष्णः शुक्लस्तथैव च 2.2.10.
धूम्रपीतो रक्तपीतः शुक्लः कृष्णश्च श्यामकः
शुक्लशोणं पुनः श्वेतं सिंदूराभं प्रकीर्तितम्
शुक्लपीतं च श्वेतं च गौरं चेत्यष्टवर्णकम्
धरणीमदनं वाद्ये शंभुवर्णादिप्रक्रमात्
मध्येंते ऊनपञ्चाशत्सर्वं च वास्तुकर्मणि
महाकूपे तथा श्वेतो अन्यत्रापि प्रशस्यते
दश पूर्वायता रेखा दश चैवोत्तरायताः
सर्ववास्तुविभागेन विज्ञेया नवका नव
द्वात्रिंशद्बाह्यतः पूज्याः पूज्यागारे त्रयोदश
चतुर्दिक्षु षट्पदं तु त्रिपदं तु चतुष्पदम् चरक्यादि ततो हित्वा चत्वारिंशच्च पंचकम् 2.2.10.
अपरं मण्डलं वक्ष्ये यथावदनुपूर्वशः
द्विचतुष्कोष्ठकैर्दिक्षु यजेतार्यमणं ततः
कोणेषु कोष्ठद्वंद्वेषु बाह्यादिपरिकीर्तितम्
रुद्रं रुद्रजयं चैव वायुं जृंभकमेव च
क्रमादीशानपर्यंतां जयंतः शक्रभास्करौ
अग्निः पूषा च वितधो यमश्च गृहरक्षकः
निर्ऋतिर्दौवारिकश्च सुग्रीववरुणौ ततः
प्राणवायुश्च नागश्च सोमो भल्लाट एव च
मिलित्वा च त्रिपञ्चाशत्तेभ्यः पूर्वे बलिं हरेत्
रक्तमर्यमणं ध्यायेच्चतुर्भिर्बहुभिर्वृतम् 2.2.10.
आकृष्णेनेति मन्त्रस्य स्वर्ण ऋषिजगतीछन्दः सवित्रर्यमप्रीतये विनियोगः