त्रिहस्ता पिंडिका कार्या चतुरस्रा उदक्प्लवा
मध्ये संमार्जयेद्विद्वान्पादान्नव यथाक्रमात्
पञ्चकं युग्मपादेन चतुर्दिक्षु ततः परम्
चतुष्कोणं बहिः कुर्यात्कोणे चापि चतुष्टयम्
चत्वारिंशत्पञ्चयुता मिलित्वा वास्तुदेवताः
सूर्यः सत्यो वृषश्चैव आकाशं वायुरेव च
गन्धर्वो मृगराजस्तु मृगाः पितृगणास्तथा
असुरः पशुपाशौ च रोगो हि मोक्ष एव च
बहिर्द्वादश इत्येतानीशानादीन्यथाक्रमम् 2.2.10.
आपश्चैवाथ सावित्रो जयो रुद्रस्तथैव च
मित्रोऽथ राजयक्ष्मा च सप्तमः पृथिवीधरः
पूर्वादिषु तथा पूज्या गन्धपुष्पैः पृथग्विधैः
मिलित्वा ऊनपञ्चाशदुत्तमा वास्तुदेवताः
बहिः कोणे चरक्यादि चरकं च विदारिकाम्
स्वैःस्वैर्मंत्रैश्च गंधाद्यैः पूजयेत्कुसुमादिना
रेखाः सर्वत्र शुक्लेन पद्मं रक्तेन भावयेत्
देववर्णानथो वक्ष्ये यथावदनुवर्णिताः
पीतः शुक्लश्च धर्मश्च पूषा रक्तः प्रकीर्तितः
पीतो भृंगः पुनः शुक्लः कृष्णः शुक्लस्तथैव च 2.2.10.
धूम्रपीतो रक्तपीतः शुक्लः कृष्णश्च श्यामकः
शुक्लशोणं पुनः श्वेतं सिंदूराभं प्रकीर्तितम्
शुक्लपीतं च श्वेतं च गौरं चेत्यष्टवर्णकम्
धरणीमदनं वाद्ये शंभुवर्णादिप्रक्रमात्
मध्येंते ऊनपञ्चाशत्सर्वं च वास्तुकर्मणि
महाकूपे तथा श्वेतो अन्यत्रापि प्रशस्यते
दश पूर्वायता रेखा दश चैवोत्तरायताः
सर्ववास्तुविभागेन विज्ञेया नवका नव
द्वात्रिंशद्बाह्यतः पूज्याः पूज्यागारे त्रयोदश
चतुर्दिक्षु षट्पदं तु त्रिपदं तु चतुष्पदम् चरक्यादि ततो हित्वा चत्वारिंशच्च पंचकम् 2.2.10.
अपरं मण्डलं वक्ष्ये यथावदनुपूर्वशः