रविणा कृत्तिकायोगाद्रविवारे च पूर्णिमा
एवं गुरौ गुरोर्योगे महाचैत्री प्रकीर्तिता
सर्वमक्षयतां याति फलं चैवाश्वमेधिकम्
भरण्यां कार्त्तिके मासि यदि स्यात्पूर्णिमा तिथिः
शालग्रामे महाचैत्री कृतपुण्या महातिथिः
पुरुषोत्तमे महाज्यैष्ठी महाषाढी तु शृंखले
महाभाद्री बदर्यां च कुजोऽपि स्यान्नरस्तथा
महती मार्गशीर्षे स्यादयोध्यायां तथोत्तरे
महाफाल्गुनी नैमिषे च निर्दिष्टाः स्युर्महाफलाः ।। 2.2.8.
अत्र स्म विहितं कर्म शुभं वा यदि वाशुभम्
आश्विने पौर्णमासी तु कौमुदीति प्रकीर्तिता
निर्वतयेन्न यः श्राद्धं प्रभाते पैतृकं द्विजः
चन्द्राश्विने तु कृष्णायां पञ्चदश्यां यथाविधि
प्रदोषसमये लक्ष्मीं पूजयित्वा यथाविधि
नदीतीरे गिरौ गोष्ठे श्मशाने वृक्षमूलतः
द्विर्भोजनममावास्यां न कर्तव्यं कदाचन
प्रवरविचारवर्णनम् यद्विना व्यत्ययो यस्मात्तस्माच्छास्त्रानुसारतः
प्रवरत्रयं काश्यपस्य काश्यपाशावनैर्ध्रुवम्
च्यवनो जामदग्न्यश्च आप्लवायनमेव च
शांडिल्यासितदैवलाः प्रवरत्रयमेव च
आत्रेयमाचार्यणस्याबालप्रवरमेव हि
अर्थक्षीरमित्रावरुणं पञ्चमं परिकीर्तितम्
औतथ्यस्य च वाशिष्ठमैन्द्रे चक्रं च क्रौञ्चायनं तथा
उरुकंटत्रयं विद्यात्कौशिकस्य त्रयं तथा
विश्वामित्रो देवराट्च स्वयं चैव त्रयं मतम् ९ चण्डकौशिकस्य च तथा देवराट् देवरातकम् 2.2.9.
तरुंकशाकटायनः स्वयमेव प्रवरत्रयम्
शंखमांगिरसच्यवनं शंखभस्य त्रयं मतम्
सावर्णस्य तु सावर्ण्यच्यवनजामदग्निभार्गवम्
कृष्णाजिनस्य कृष्णाजिनं विश्वामित्रस्य जैमिनम्
वात्स्यायनेति विख्यातं कुशिकस्य च पंचमम्