संभवेत्फाल्गुने मासि या च कृष्णा चतुर्दशी
दिवा तस्या अलाभे तु रात्रियोगे व्रतं चरेत्
तिथियोगे च शर्वर्यां संपूर्णे व्रतमाचरेत्
प्रहरेप्रहरे स्नानं स्वयं स्नात्वा शिवस्य च
अथ वक्ष्यामि चैत्रादिमासे तु पूर्णिमा यथा महाचैत्रीति सा ज्ञेया पूर्णिमाक्षयपुण्यदा
विशाखादिषु भेदेषु पूर्णचन्द्रो गुरुश्चरेत्
महाज्यैष्ठी विशेषोऽयं प्राजापत्ये यथा रविः
विनापि गुरुणा चन्द्रः कृत्तिका पूर्णिमा तथा
रोहिण्यां तु स्थितश्चन्द्रः पौर्णमास्यां तु कार्त्तिके 2.2.8.
चित्रा वा यदि वा पूर्णा यदा स्यात्पूर्णिमातिथिः
रविणा कृत्तिकायोगाद्रविवारे च पूर्णिमा
एवं गुरौ गुरोर्योगे महाचैत्री प्रकीर्तिता
सर्वमक्षयतां याति फलं चैवाश्वमेधिकम्
भरण्यां कार्त्तिके मासि यदि स्यात्पूर्णिमा तिथिः
शालग्रामे महाचैत्री कृतपुण्या महातिथिः
पुरुषोत्तमे महाज्यैष्ठी महाषाढी तु शृंखले
महाभाद्री बदर्यां च कुजोऽपि स्यान्नरस्तथा
महती मार्गशीर्षे स्यादयोध्यायां तथोत्तरे
महाफाल्गुनी नैमिषे च निर्दिष्टाः स्युर्महाफलाः ।। 2.2.8.
अत्र स्म विहितं कर्म शुभं वा यदि वाशुभम्
आश्विने पौर्णमासी तु कौमुदीति प्रकीर्तिता
निर्वतयेन्न यः श्राद्धं प्रभाते पैतृकं द्विजः
चन्द्राश्विने तु कृष्णायां पञ्चदश्यां यथाविधि
प्रदोषसमये लक्ष्मीं पूजयित्वा यथाविधि
नदीतीरे गिरौ गोष्ठे श्मशाने वृक्षमूलतः
द्विर्भोजनममावास्यां न कर्तव्यं कदाचन
प्रवरविचारवर्णनम् यद्विना व्यत्ययो यस्मात्तस्माच्छास्त्रानुसारतः
प्रवरत्रयं काश्यपस्य काश्यपाशावनैर्ध्रुवम्
च्यवनो जामदग्न्यश्च आप्लवायनमेव च
शांडिल्यासितदैवलाः प्रवरत्रयमेव च