भाद्रे मासि सिते पक्षे द्वादश्यां पृथिवीपतिम्
शल्यशाल्मलिकस्यापि सप्तपर्णीयकस्य च
बृहत्कदंबवृक्षस्य द्विचत्वारिंशदंगुलैः त्रिव्यायामं च प्रथमं द्वाविंशहस्तमेव वा
हस्तः षोडशवारस्य गृहस्थस्य विशिष्यते
अष्टहस्तं तु वैश्यस्य शूद्रस्य पञ्चहस्तकम्
घनसारसमायुक्तां कर्पूरमंडनान्विताम्
मञ्चस्थां कारयेत्पूजां भक्त्या च सुदृढो नरः
काकादीन्न स्पृशेज्जातु वैरपक्षे विशेषतः
पताके निस्सृते भग्ने महिषाणां विनाशनम् 2.2.8.
तस्करश्च कुले तस्य प्रायश्चित्तं समाचरेत्
विष्णुमुद्दिश्य जुहुयादयुतं पिप्पलस्य च
आदित्यस्याद्भुतमिदं द्विजपाते तु भो द्विजाः
भूकंपे जायते विष्टं गुरोरद्भुतमादिशेत्
पताके निस्सृते भग्ने राहोरद्भुतमादिशेत्
शिवा रुवंति चान्द्रस्य वानरो वा स्पृशेत्क्वचित्
त्रयोदशीं सितां प्राप्य पुष्पैर्नानाविधैरपि
चैत्रे मासि सिताष्टम्यां शनौ शतभिषा यदि
सेयं महावारुणीति ख्याता कृष्णत्रयोदशी
मधुमासे सिते पक्षे दम्भभञ्जी चतुर्दशी 2.2.8.
स याति परमं स्थानं मदनस्य प्रभावतः
अनन्तस्य व्रतं वक्ष्ये सर्वपापप्रणाशनम्
द्वादश्यां पूजिते शक्रे ध्वजके वास्तुयष्टिषु
कृत्वा दर्भमयानन्तं वारिधान्यान्वितं तथा
चतुर्दश फलैर्मूलैर्जलजैः कुसुमैरपि
कृत्वा पूपाह्वयं तस्मै दद्यादेकं श्रुतेक्षितम्
चतुर्दशग्रन्थियुतं कुंकुमेन विलेपितम्
अतः प्रेत चतुर्दश्यां भोजयित्वा तपोधनान्
ततः प्रेतकथां श्रुत्वा शाकैर्नक्तं समाचरेत्
मानमात्रादिकं कृत्वा सर्वपापैः प्रमुच्यते ।। 2.2.8.
माघे मासि वटापायः कस्य पापं पुनीमहे