बीजकाण्डरुहाण्येव प्रताना वल्ल्य एव च । तमसा बहुरूपेण वेष्टिताः कर्महेतुना
अन्तःसंज्ञा भवन्त्येते सुखदुःखसमन्विताः । एतावत्यस्तु गतयः प्रोद्भूताः कुरुनन्दन
तस्माद्देवाद्दीप्तिमन्तो भास्कराच्य महात्मनः । घोरेऽस्मिंस्तात संसारे नित्यं सततयायिनि
एवं सर्वं स सृष्ट्वेदं राजँल्लोकगुरुं परम् । तिरोभूतः स भूतात्मा कालं कालेन पीडयन्
यदा स देवो जागर्ति तदेदं चेष्टते जगत् । यदा स्वपिति शान्तात्मा तदा सर्वं निमीलति
तस्मिन्स्वपिति राजेन्द्र जन्तवः कर्मबन्धनाः । स्वकर्मभ्यो निवर्तन्ते मनश्च ग्लानिमृच्छति
युगपत्तु प्रलीयन्ते यदा तस्मिन्महात्मनि । तदायं सर्वभूतात्मा सुखं स्वपिति भारत
तमो यदा समाश्रित्य चिरं तिष्ठति सेन्द्रियः । न नवं कुरुते कर्म तदोत्क्रामति मूर्तितः
यदाहंमात्रिको भूत्वा बीजं स्थास्नु चरिष्णु च । समाविशति संसृष्टस्तदा मूतिं विमुञ्चति
एवं स जाग्रत्स्वप्नाभ्यामिदं सर्वं जगत्प्रभुः । संजीवयति चाजस्रं प्रमापयति चाव्ययः
कल्पादौ सृजते तात अन्ते कल्पस्य संहरेत् । दिनं तस्येह यत्तात कल्पान्तमिति कथ्यते
कालसंख्यां ततस्तस्य कल्पस्य शृणु भारत । निमेषा दश चाष्टौ च अक्ष्णः काष्ठा निगद्यते
त्रिंशत्काष्ठाः कलामाहुः क्षणस्त्रिंशत्कलाः स्मृताः । मुहूर्तमथ मौहूर्ता वदन्ति द्वादश क्षणम्
त्रिंशन्मुहूर्तमुद्दिष्टमहोरात्रं मनीषिभिः । मासस्त्रिंशदहोरात्रं द्वौ द्वौ मासावृतुः स्मृतः
ऋतुत्रयमप्ययनमयने द्वे तु वत्सरः । अहोरात्रे विभजते सूर्यो मानुषदैविके
रात्रिः स्वप्नाय भूतानां चेष्टायै कर्मणामहः । पित्र्ये रात्र्यहनी मासः प्रविभागस्तु पक्षयोः
कर्म चेष्टास्वहः कृष्णः मुक्तः स्वप्नाय शर्वरी । दैवे रात्र्यहनी वर्षं प्रविभागस्तयोः पुनः
अहस्तत्रोदगयनं रात्रिः स्याद्दक्षिणायनम् । ब्राह्मस्य तु क्षपाहस्य यत्प्रमाणं महीपते
एकैकशो युगानां तु क्रमशस्तन्तिबोध मे । चत्वार्याहुः सहस्राणि वर्षाणां तत्कृतं युगम्
तस्य तावच्छती सन्ध्या सन्ध्यांशश्च तथाविधः । त्रेता त्रीणि सहस्राणि वर्षाणि च विदुर्बुधाः