एकादशी द्वादशी च परेऽहनि न लभ्यते
एकादशी दशाविद्धा द्वादश्यां लिप्तिका यदा तदा दिनद्वये त्याज्या पारणं च नियोगतः
षोडशीग्रहणं दृष्ट्वा द्वादशी लुप्तपारणा
त्रयोदश्यां यद्विहितं पारणं न तु पुण्यदम्
यदि रुद्रा दशमित्रा परेऽह्निरविसंक्रमः
वज्रालोकनमात्रं तु दशमी संविशेद्यदि
तदा चेद्दशमीविद्धा समुपोष्या न दूषणम्
द्वादश्यामुपवासं तु यः करोति नरोत्तमः
उपोष्य दशमीमित्रां मोहादेकादशीं नरः 2.2.8.
रविवारे शुक्रवारे संक्रान्त्यां तु दिनक्षये
शुक्लां वा यदि वा कृष्णां पूर्वसंकल्पितामपि
नक्तेन वर्तयेत्कृष्णामिति शास्त्रविनिश्चयः तत्र कुर्यात्कृष्णपक्षे परा तिथिर्न गृह्यते
श्रावणी द्वादशी शुक्ला चांद्रभद्रे यदा हरौ
श्रावणे चाश्विने चैव लभ्यते द्वादशीदिने
पुष्येण द्रादशीयुक्ता फाल्गुने विजया स्मृता
या भाद्रे विजया प्रोक्ता श्रवणेन समायुता
एकादश्यामुत्तरतो द्वादशी च दिवान्विता
सफला द्वादशी ज्ञेया उपोष्यैषा महाफला
द्वादश्यां विष्णुविद्धायां वासुदेवं प्रपूजयेत् 2.2.8.
द्वादशी कामविद्धा चेन्मन्यते नाप्युपोषणम्
प्रहरेप्रहरे स्नानं शर्वर्यां च विधीयते
एकादशीं द्वादशीं च प्राप्नोति श्रवणे यदि
पारणं तु त्रयोदश्यां द्वादशी चेन्न लभ्यते
यदा तु पारणायोग्या लभ्यते द्वादशी तदा
एकादशी द्वादशी च श्रवणर्क्षेण संयुता
दशम्यां संयतो भूत्वा प्रातरेकादशीदिने
अनेन विधिना कृत्वा विजयायां व्रतोत्तमम्
चतुर्युगानां दिव्यानां यावत्स्याद्विष्णुरूपधृक
त्रेतायां दशजन्मानि मध्यदेशेषु भो द्विजाः पुत्रपौत्रधनैर्युक्तो लक्षदो नृपसन्निभः ।। 2.2.8.
जायते दश जन्मानि त्रेतायां ब्राह्मणोत्तमः