न कालनियमस्तत्र न वारनियमः क्वचित्
त्रिकालं पूजयेद्देवं दिवा रात्रौ विशेषतः
दिवा तिथेरलाभे तु न कुर्याद्विधिवद्व्रतम्
सप्तमी सार्धयामं च रोहिणी वा न संस्पृशेत्
प्रागारंभं प्रकुर्वीत अधिमात्राधिके व्रती
यत्र तत्रोपवासी स्याद्यामाष्टकव्रतं चरेत्
तत्परे चाऽन्नजन्यं वा न कुर्यात्पारणं गृही
नक्षत्रयोगे ग्रहणे पूजयेत्परमेश्वरम्
दिवाष्टम्यां मुहूर्ते वा प्राजापत्येन संयुतम् 2.2.8.
मुहूर्तांते च मासांते अष्टम्यामपि रोहिणी
नवम्यां च सदा पूज्याः प्रतिमासेऽयुतं द्विजाः
कार्तिकस्य तु मासस्य दशमी शुक्लपक्षिका
दशमी ज्येष्ठमासस्य सा चेद्दशहरा स्मृता
एकादशी व्रतपरा सर्वपापप्रणाशिनी
दशम्यामेकभक्तस्तु संयतः स्याज्जितेन्द्रियः
द्वादश द्वादशीर्हन्ति तस्मात्तथाचरेद्बुधः
न वर्धते द्वादशी तु तदा त्वेवं व्यवस्थितिः
पूर्वेवैकादशी त्याज्या वर्धते चेत्तिथिद्वयम्
यदा तु पारणा योग्या द्वादशी नोपतिष्ठते 2.2.8.
एकादशी कलायुक्ता सकला द्वादशी यदि
एकादशी द्वादशी च परेऽहनि न लभ्यते
एकादशी दशाविद्धा द्वादश्यां लिप्तिका यदा तदा दिनद्वये त्याज्या पारणं च नियोगतः
षोडशीग्रहणं दृष्ट्वा द्वादशी लुप्तपारणा
त्रयोदश्यां यद्विहितं पारणं न तु पुण्यदम्
यदि रुद्रा दशमित्रा परेऽह्निरविसंक्रमः
वज्रालोकनमात्रं तु दशमी संविशेद्यदि
तदा चेद्दशमीविद्धा समुपोष्या न दूषणम्
द्वादश्यामुपवासं तु यः करोति नरोत्तमः
उपोष्य दशमीमित्रां मोहादेकादशीं नरः 2.2.8.
रविवारे शुक्रवारे संक्रान्त्यां तु दिनक्षये