चतुर्थीभरणीयोगे भवेच्चरदिनं यदा
शिवा शांता सुखा चैव चतुर्थी त्रिविधा स्मृता
कार्त्तिके तु भवेच्छाया तथा माघे तु कीर्त्यते भवेत्सहस्रगुणितं श्राद्धं भवति चाक्षयम्
गणेशे कारयेत्पूजां मोदकादिभिरादरात्
श्रावणे मासि पञ्चम्यां शुक्लपक्षे विशेषतः
तेषां कुले प्रयच्छंति अभयं प्राणरक्षणम्
द्वादश्योभयलेखे च गोमयेन विशेषतः
सुप्ते जनार्दने कृष्णपञ्चम्यां भवनांगणे
पिचुमंदस्य पत्राणि स्थापयेद्भवनोदरे 2.2.8.
येयं भाद्रपदे षष्ठी षष्ठी च द्विजसत्तम
षष्ठ्यां फलाशनो विप्रा विशेषान्माघकार्तिके
शुद्धे पक्षे च सप्तम्यां यदा संक्रमते रविः महाजया तदा स्याद्वै सप्तमी भास्करप्रिया
अपराजिता तु भाद्रस्य महापातकनाशिनी
शुक्ला वा यदि वा कृष्णा षष्ठी वा सप्तमी तु वा
आश्विनस्य सिताष्टम्यामष्टादशभुजां यजेत्
आषाढे श्रावणे मासि शुक्लाष्टम्यां च चंडिकाम्
चैत्रमासि सिताष्टम्यामशोककुसुमैर्द्विजाः
सत्यष्टममुहूर्ते वा रोहिणीसहिताष्टमी
एकादशीनां कोटीनां व्रतैश्च लभते फलम् 2.2.8.
अशक्तोऽन्यक्रियां कर्तुमुपवासं तु केवलम्
न कालनियमस्तत्र न वारनियमः क्वचित्
त्रिकालं पूजयेद्देवं दिवा रात्रौ विशेषतः
दिवा तिथेरलाभे तु न कुर्याद्विधिवद्व्रतम्
सप्तमी सार्धयामं च रोहिणी वा न संस्पृशेत्
प्रागारंभं प्रकुर्वीत अधिमात्राधिके व्रती
यत्र तत्रोपवासी स्याद्यामाष्टकव्रतं चरेत्
तत्परे चाऽन्नजन्यं वा न कुर्यात्पारणं गृही
नक्षत्रयोगे ग्रहणे पूजयेत्परमेश्वरम्
दिवाष्टम्यां मुहूर्ते वा प्राजापत्येन संयुतम् 2.2.8.
मुहूर्तांते च मासांते अष्टम्यामपि रोहिणी