ऋक्षाभावे परा ग्राह्या त्रिसंध्यव्यापिनीष्वपि
अभावे चोत्तराषाढा धनिष्ठा च विशिष्यते
उदये संयुता ग्राह्या सा तिथिश्चोत्तमा भवेत्
रविचक्रवता ग्राह्या रथे तिथ्यादेरपि च
अपरेऽपि च सर्वत्र हलानां वाहनं त्यजेत्
नराश्वगोगजादीनां वाहनात्पातकी भवेत्
कर्तुर्गोमहिषादीनां गर्दभोष्ट्रखरस्य च
बहुकालिकयज्ञे च यज्ञश्राद्धे तथैव च
नित्यश्राद्धेऽप्यम्बुघटे यच्छ्राद्धं मासिकं भवेत् 2.2.7.
कुर्यादंबुघटश्राद्धं न कालनियमं क्वचित्
तैजसैर्निर्मितं कुम्भमथ वा वृक्षपत्रजम्
निवेदयेच्च मासांते मृन्मयं वृक्षमूलके पर्वश्राद्धे दैवलकं तथा रण्डाश्रमं त्यजेत्
मातापितृपरित्यागी तैलहव्यादिविक्रयी
स्त्रिया विमुच्यते कश्चित्स तु रण्डाश्रमी मतः
पुत्रभार्यावियुक्तस्य नास्ति यज्ञाधिकारिता
यां तिथिं समनुप्राप्य समुदेति दिवाकरः
ययास्तं सविता याति कृष्णपक्षे तु सा तिथिः
सप्तमी शुक्लपक्षे या यावदिच्छेच्च खण्डिता यद्यखण्डा भवेत्सैव तदा ज्ञेया भवात्मिका
माघमासेन साप्येवं पूर्वेण रवितोषिणी 2.2.7.
उत्तमतिथिनिर्णयवर्णनम् प्रतिपादिता परे पूर्वे प्रतिपाद्य नवोद्यते
कार्तिकाश्वयुजोश्चैत्रे माघे चापि विशेषतः
अग्निमिष्ट्वा च कृत्वा च प्रतिपद्यामिति स्मृतम्
बृहस्पतौ द्वितीयायां शुक्लायां विधिपूजनम्
मिथुने कर्कटे चैव गोविप्रदमनांतरम् यामुपोष्य न वैधव्यं प्रयाति स्त्री न संशयः
अमूल्यशयनं मासं दंपती प्रतिपूजयेत्
वैशाखे शुक्लपक्षे तु तृतीयायां तथैव च
स्वातियुक्ततृतीयायां वैशाखे तु विशेषतः
तस्यां यद्दीयते किञ्चित्तदक्षयमुदाहृतम्
तोयदानं विशेषेण प्रशंसंति मनीषिणः 2.2.8.
बुधश्रवणसंयुक्ता तृतीया यदि लभ्यते