द्विसप्ततिर्दिनान्यस्य महास्तं पूर्वतो भवेत्
ऊनपञ्चाशदधिकं दिवसानां शतद्वयम्
एकर्क्षे गुरुणा युक्तो यावत्तिष्ठति भार्गवः
ऋक्षभेदे त्वेकराशौ संपर्के यदि वानयोः
सिंहे राशौ स्थिते सूर्ये जीवे चास्तमुपागते 2.2.6.
मिथुनस्थे यदा भानौ मलमासः पतत्यसौ
फलं चात्र मृतस्यौर्ध्वदेहिकं कर्म कुर्वता
आषाढद्वयसंयुक्तपूर्णमासीद्वयं तथा
भवेद्गौणो द्विराषाढो राशिस्तत्रैव संयुते
कर्कटे शयनं कुर्यादागमिष्यं परत्रके
दुर्गोत्थानं तुलायां तु विष्णुर्निद्रां जहात्यसौ
तिथिविधानवर्णनम् काले तान्येव कर्माणि फलं यच्छंति कुर्वताम्
मुहुर्बाल्ये कर्मफलं त्रिकालेऽपि न विद्यते
कालस्तु गुणभावेन सर्वकालाश्रिता क्रिया
अतः कालं प्रवक्ष्यामि निमित्तं कर्मणामिह । काले ह्यमूर्तिर्भगवानेक एव तु यद्यपि
तिथिनक्षत्रवारादौ रात्रियोगादयोपि ये साधनानि भवन्त्येते स्वातन्त्र्येण न कस्यचित्
धर्मस्य वाप्यधर्मस्य मुख्यो व्यापार एव सः
पालयन्स्वर्गमाप्नोति हित्वा प्राप्नोत्यधोगतिम्
कालभागो निःसहायो येऽपि स्युः कर्मसाधनाः
एकोद्दिष्टं तु मध्याह्नव्यापिन्यां हि समाचरेत्
न तु पूर्वाह्णमध्याह्नपराह्णेषु यथोचितम् 2.2.7.
एको हि कालः प्रातस्तु वृद्धिश्राद्धादिसाधने
देवेभ्यो ब्रह्मणा दत्तः पूर्वाह्णस्तिथिभिः सह
पूर्वाह्णमात्रसंप्राप्तौ ततो देवान्प्रपूजयेत्
खर्वा दर्पा तथा हिंस्रा तिथिश्च त्रिविधा भवेत्
हिंस्रा तु क्षयजा ज्ञेया कालभेदेन गृह्यते
शुक्लपक्षे परा ग्राह्या कृष्णे पूर्वा प्रशस्यते
यथावास्ते रविर्भाति घटिका दश वापि वा
शुक्ले वा यदि वा कृष्णे खर्वा दर्पा तिथिश्च या 2.2.7.
दिनद्वयेऽपि कुतपे अस्तगां तिथिमाश्रयेत् व्रते च वृद्धिगामिन्यां यत्रोदयो रवेर्भवेत्