गशे राश्यंतरे सूर्यो यावद्गच्छति भानुमान्
वर्धते तिथयो यावत्तुलां याति दिवा करः
स्वभावात्समगत्या तु यतः संक्रमते रविः निशास्वपि तु सौरे ता एकस्मिंस्तिस्र इत्यपि
संपूर्णत्रिंशत्तिथिभिर्मास्येकस्मिन्यदा भवेत्
भुक्तोच्छिष्टा तु तन्मासादसंस्पृष्टदिवाकरः 2.2.6.
सार्धवर्षद्वये पूर्णे पतत्येवं निशाकरः तिथयस्ते नियोक्तव्या नरो न स्यात्स पूरणः
नैर्ऋत्यांतं हितार्थाय जलकेतुर्निगच्छति
अतः प्रेतक्रियाः सर्वाः कार्या मलिम्लुचेऽपि च
तदिदानीं प्रवक्ष्यामि कथितं च प्रसंगतः मलमासेऽपि तत्कार्यं विशि नष्टि सपिंडनम्
यदा तु द्वादशो मासो दैवान्मलिम्लुचो भवेत्। तत्रैव यत्नात्कर्तव्या क्रिया प्रेतस्य वार्षिकी
मासांतरे तु पतिते तस्मिन्नेव मलिम्लुचे
वर्ज्यं मासिकया श्राद्धमेकं तस्मिंस्त्रयोदशे
कुर्यात्पत्याब्दिकं कर्म प्रयत्नेन मलिम्लुचे
तीर्थस्नानमलभ्यं तत्तदाद्यं देवदर्शनम्
आर्तवर्जं पुंसवनं पुत्रादिमुखदर्शनम् 2.2.6.
मलमासेपि कुर्वीत नृपाणामभिषेचनम्
मंत्रोपासां रहस्यं च महादानं सुमङ्गलम्
उपग्रहं गवादीनामाश्रमांतरसंक्रमम्
वर्षवृद्धिवृषोत्सर्गकन्या द्विर्नयनादि च
एवमस्तं गते शुक्रे वृद्धबाल्ये च संत्यजेत्
द्विसप्ततिर्दिनान्यस्य महास्तं पूर्वतो भवेत्
ऊनपञ्चाशदधिकं दिवसानां शतद्वयम्
एकर्क्षे गुरुणा युक्तो यावत्तिष्ठति भार्गवः
ऋक्षभेदे त्वेकराशौ संपर्के यदि वानयोः
सिंहे राशौ स्थिते सूर्ये जीवे चास्तमुपागते 2.2.6.
मिथुनस्थे यदा भानौ मलमासः पतत्यसौ
फलं चात्र मृतस्यौर्ध्वदेहिकं कर्म कुर्वता
आषाढद्वयसंयुक्तपूर्णमासीद्वयं तथा
भवेद्गौणो द्विराषाढो राशिस्तत्रैव संयुते
कर्कटे शयनं कुर्यादागमिष्यं परत्रके