अहोरात्रं तु तन्नैवं सौरेऽपि भागमानतः
सौरे चान्द्रे तूपगणौ त्रिंशद्भागे त्वदर्शनात्
अतिभागव्यवस्थायां प्रायश्चित्तक्रियासु च
करस्य ग्रहणे राज्ञो व्यवहारेषु माःसु च
सौरमासो विवाहादौ यदाद्यैः सुप्रगृह्यते 2.2.6.
चान्द्रस्तु पार्वणे ग्राह्यो वार्षिकेष्वष्टकासु च
नाक्षत्रः सोमपादीनामार्यभागविचारणे
तद्वच्चैत्रादिमासोक्तं तिथ्युक्तं कर्म दृश्यते
राजोक्तौ सावनः प्रोक्ते तिथिसंभागकर्मणि
चित्रानक्षत्रयोगेन चैत्री सा पूर्णिमा स्मृता
स च तिथ्यात्मको मासश्चान्द्रः श्रवणभास्करः
गौणोऽप्यसौ युगाद्यादेरनुरोधेन वर्धनात्
चैत्राद्याश्चान्द्रमासा ये द्वादशापि तु योगतः
विशाखयाद्येषु या वा तथा भाद्रपदेन वा
योऽसौ यद्यपि चैत्रादौ नैष्ठिकोऽपि प्रलभ्यते 2.2.6.
तथा च माससामान्ये योगेनायं भवेत्क्वचित्
संयुक्ता लभ्यते यत्र भवेद्राज्यविनाशनम्
दण्डद्वये भुक्तशेषे न भुञ्जीत कदाचन
यत्र विंशत्तिथिस्तस्मात्सञ्चितैका भवेदिति
स चाधिको यतो मासस्ततः स्यादधिमासकः
गशे राश्यंतरे सूर्यो यावद्गच्छति भानुमान्
वर्धते तिथयो यावत्तुलां याति दिवा करः
स्वभावात्समगत्या तु यतः संक्रमते रविः निशास्वपि तु सौरे ता एकस्मिंस्तिस्र इत्यपि
संपूर्णत्रिंशत्तिथिभिर्मास्येकस्मिन्यदा भवेत्
भुक्तोच्छिष्टा तु तन्मासादसंस्पृष्टदिवाकरः 2.2.6.
सार्धवर्षद्वये पूर्णे पतत्येवं निशाकरः तिथयस्ते नियोक्तव्या नरो न स्यात्स पूरणः
नैर्ऋत्यांतं हितार्थाय जलकेतुर्निगच्छति
अतः प्रेतक्रियाः सर्वाः कार्या मलिम्लुचेऽपि च
तदिदानीं प्रवक्ष्यामि कथितं च प्रसंगतः मलमासेऽपि तत्कार्यं विशि नष्टि सपिंडनम्
यदा तु द्वादशो मासो दैवान्मलिम्लुचो भवेत्। तत्रैव यत्नात्कर्तव्या क्रिया प्रेतस्य वार्षिकी