करीनरी सुललितस्तेषां नामानि वै क्रमात्
स वै पुत्राज्ञया शूरस्तालनो राक्षसप्रियः
तथा वसुमतः पुत्रौ भूपतीदेशवत्सजौ
सिंहिनीनाम वडवां या तु दत्ता भयानका
पंचशब्दं महानागमिन्द्रदत्तं मनोरमम्
हयं पपीहकं नाम सूर्यदत्तं नरस्वरम्
त्रयः शूराः समागम्य नगरीं ते महावतीम्
सेना षष्टिसहस्रं तत्तेषां स्वामी स तालनः 3.3.7.
तैर्वीरै रक्षितो राजा कृतकृत्यत्वमागतः
कालियेन युतः प्राप्तो नर्मदायास्तटे शुभे
पार्थिवैः पूजयामास देवदेवं पिनाकिनम्
वरं वरय तेऽभीष्टं भूप आह कृतांजलिः
तथेत्युक्त्वा महादेवस्तत्रैवान्तर्हितोभवत्
मोहनं सर्वसैन्यानां पितुरंतिकमाययौ
गमिष्यामि बलैः सार्द्धं गंगां शुद्धजलां शुभाम्
भगिनीं प्राह बलवान्विजयैषिणि शोभने
साह ग्रैवेयकं हारं मणिमुक्ताविभूषितम्
कालियो लक्षतुरगैः संयुतस्त्वरितोऽगमत्
दत्त्वा दानानि विप्रेभ्यो जयचन्द्रपुरीं ययौ 3.3.8.
कान्यकुब्जे महाहारौ न प्राप्तो बहुमूल्यकः
ययौ महावतीं रम्यां शिवदत्तवरो बली
रुद्रं कपर्दिनं शंभुं शरण्यं शरणं ययौ
सार्द्धं पुराद्बहिर्यातस्त्रिभिः शूरैः सुरक्षितः
हयाः षोडशसाहस्रा वत्सराजस्तु तत्पतिः
प्रनष्टो मुलं युद्धं तेषां वीरवरक्षयम् ।।७ अहोरात्रप्रमाणेन महद्घोरमवर्तत
ते हत्वा शात्रवीं सेनां चक्रुर्जयरवान्मुहुः
दुद्रुवुः सर्वतो विप्र दृष्ट्वा तान्कालियो नृपः
हृदि कृत्वा महादेवं मोहनं बाणमादधत्
शेषास्ते शत्रवः सर्वे रिपुघाताय संययुः 3.3.8.
भीष्मसिंहस्तथा दृष्ट्वा बोधयामास सैनिकान्