सप्ताङ्गं कलशे ज्ञेयं पञ्चाङ्गमथ वा पुनः
अथ वाक्षतपुष्पेषु देवमावाह्य पूजयेत्
वटस्याश्वत्थवृक्षस्य धातकीबिल्वकस्य च
सौवर्णा राजता वापि ताम्राद्या मृन्मयास्तथा
अभेद्याः सुषमाः प्लक्षाः सर्वे आद्याः सुपूरिताः
एक त्रिंशाङ्गुलं कुर्यात्कालाहे द्विगुणं शतम्
तैजसैः कारयेन्मानं मृन्मये मानमुच्यते
कलशस्थापनं वक्ष्ये यत्र सन्निहिताः सुराः
यज्ञे साधारणं वक्ष्ये यद्विधानं यथामतम् 2.2.5.
चतुरस्रोत्तरं भित्त्वा चोर्ध्वाधोमानतः समम्
मार्जयेत्स्वस्तिकाकारं तुर्यमात्रं यथा भवेत्
स्योना पृथिवीति मंत्रेण कुर्याद्भूभिपरिग्रहम् ऋषिर्नारायणोऽस्य स्याद्गायत्री देवता रविः
विनियोगः स्थापने च तथा भूमिपरिग्रहः
अस्य मन्त्रस्य च ऋषिर्गौतमः परिकीर्तितः
आजिघ्रं कलशं मह्यां स्थापयेत्कलशं ततः
विन्यासश्चैव कर्तव्यस्त्र्यंगुले ब्रह्ममुद्रया पंक्तिश्छन्दश्च उद्दिष्टो देवता विष्णुरव्ययः
कलशस्थापने चैव सोमयागे च योजयेत्
देवता परमा त्रिष्टुब्देवता सोमभावितः
याः फलिनीति मंत्रेण प्रदद्यात्सफलाक्षतम् त्रिष्टुप्छन्दो गणपतिर्देवता परिकीर्तिता ।। 2.2.5.
बदरं नागरं चैव धात्री च पिचुमर्दकम्
हिरण्यगर्भेति ऋचा पञ्चरत्नानि निक्षिपेत् सविता देवता चास्य रत्नन्यासेति योज येत्
अमृतीकरणं कुर्याद्दैवशुल्बनमेव च
श्रीश्च ते इति मन्त्रेण दद्यात्पुष्पं सचन्दनम्
काण्डादिति च मन्त्रेण दद्याद्दूर्वाक्षतं पुनः
तिलाश्च माषा मुद्गाश्च श्यामाकाः शालयः स्मृताः
मासवर्णनम् क्रियते तद्विधं संख्ये भवेन्मास श्चतुर्विधः
चान्द्रः सौरः सावनश्च नाक्षत्रश्च तथापरः
एकराशौ रविर्यावत्स मासः सौर उच्यते
नाक्षत्रमासोऽश्विन्यादिरेवत्यन्तो हि विश्रुतः
तंत्रेणैकतिथेर्भागकालो दिवस ऐन्दवः