पदचित्रे तु सार्द्धं स्याद्ग्रीवाणां गुह्यधारणे
लवणे तु तथा देया गुवाकानां च रोपणे
पणद्वयं वराटानामधिकं दशमेव तु
पणत्रयं चक्रपणे महिषाणां पणाधिकम् 2.2.4.
दासीनां गर्दभानां च अधिकं काकिणीद्वयात्
वस्त्रे प्रतिपणं दद्याद्दीर्घे प्रस्थेऽपि वर्धयेत्
श्वेतवस्त्रे भवेन्न्यूनं पदे सूक्ष्मे च वर्द्धयेत्
वेतनं पुष्पसंस्कारे सहस्रं दशकाकिणी
अबद्धे द्व्यंगुलं यावन्मुण्डमाला प्रकीर्तिता
काकिणीकत्रयं चैव निर्माणे द्विजसत्तमाः
तदर्धार्धं मारुतेन दमने बकुलस्य च
यामेयामे रौप्यमाषं स्नेहे चैव तु काकिणी
षडंगुलेन दैर्घ्यं च न न्यूनं नाधिकं भवेत्
पञ्चाङ्गुलेन मानेन कर्तव्यः सुसमाहितः 2.2.4.
त्रिहस्ते चतुर्हस्ते वा उत्तमं मानमीरितम्
ताम्रे चायुःक्षयकरमायसे दुर्गतिप्रदः
दीपाधारं कांस्यमयं तथारीतिमयस्य च
दशाङ्गधूपके मूल्यं विंशके तु पणत्रयम्
हस्ते पंचप्रमाणं च वस्त्रैः कुर्याच्च वर्तिकाम्
कलशनिर्णयवर्णनम् सूत उवाच यस्यार्पिते च मांगल्ये यात्रासिद्धिश्च जायते
सप्ताङ्गं कलशे ज्ञेयं पञ्चाङ्गमथ वा पुनः
अथ वाक्षतपुष्पेषु देवमावाह्य पूजयेत्
वटस्याश्वत्थवृक्षस्य धातकीबिल्वकस्य च
सौवर्णा राजता वापि ताम्राद्या मृन्मयास्तथा
अभेद्याः सुषमाः प्लक्षाः सर्वे आद्याः सुपूरिताः
एक त्रिंशाङ्गुलं कुर्यात्कालाहे द्विगुणं शतम्
तैजसैः कारयेन्मानं मृन्मये मानमुच्यते
कलशस्थापनं वक्ष्ये यत्र सन्निहिताः सुराः
यज्ञे साधारणं वक्ष्ये यद्विधानं यथामतम् 2.2.5.
चतुरस्रोत्तरं भित्त्वा चोर्ध्वाधोमानतः समम्