चतुरस्रस्य निर्माणे स्वर्णपादः कलौ युगे
पद्मकुण्डे तु वृषभमर्ध चन्द्रे तु रौप्यकम्
षडस्रे तु तदर्धं स्याद्यागे माषद्वयं भवेत्
दारणे हस्तमात्रं स्यात्स्वर्णकृष्णकलं भवेत् 2.2.4.
खण्डे दशवराटं स्याद्बृ हन्माने तु काकिणी
सप्तहस्तमिते कुण्डे निष्ठे आबद्धमात्रकम्
वर्धयेत्पणमात्रेण निम्ने पत्रे च प्रक्रमात्
शैले ज्ञेयं काञ्चनस्य रत्तिका गृहकर्मणि
वृक्षाणां रोपणे दद्यात्प्रत्यह्ना सार्धमाषकम्
पणेपणे तु ताम्रस्य दद्यात्पणचतुष्टयम्
अथ वा दिनसंख्यानं पणैकं च सकाकिणि
रजते तु तदर्धं स्यात्स्फटिकस्य च दारणे
मणिवेधे मणौ ज्ञेयं काकिणी परिकीर्तिता
कांस्यतालस्य निर्माणे धमने तु पणत्रयम् 2.2.4.
गवां च दोहने चैव वराटे तुर्यवेतनम्
अविवस्त्रस्य निर्माणे स्यंदनं दशकाकिणी
दश काकिणी ऊर्ध्वाधस्तद्व्यये पण्यवेतनम्
लोहकारस्य च तथा नापितस्य च वेतनम्
सश्मश्रुनखमाने तु प्रदद्यात्काकिणीद्वयम्
सकाकिणि पणं तच्च सवित्रे च पयोधरे
पदचित्रे तु सार्द्धं स्याद्ग्रीवाणां गुह्यधारणे
लवणे तु तथा देया गुवाकानां च रोपणे
पणद्वयं वराटानामधिकं दशमेव तु
पणत्रयं चक्रपणे महिषाणां पणाधिकम् 2.2.4.
दासीनां गर्दभानां च अधिकं काकिणीद्वयात्
वस्त्रे प्रतिपणं दद्याद्दीर्घे प्रस्थेऽपि वर्धयेत्
श्वेतवस्त्रे भवेन्न्यूनं पदे सूक्ष्मे च वर्द्धयेत्
वेतनं पुष्पसंस्कारे सहस्रं दशकाकिणी
अबद्धे द्व्यंगुलं यावन्मुण्डमाला प्रकीर्तिता
काकिणीकत्रयं चैव निर्माणे द्विजसत्तमाः