प्रत्यक्षं दक्षिणां दद्याद्यज्ञदानव्रतादिके
अतो दत्तं पुरा दत्तं दातव्यं चैव संप्रति
दत्तानि विधिवत्पुंसां देवदानानि यानि हि
दातव्यान्यपि तान्येव कारयेत्परिवर्त्तनम् 2.2.3.
वरणं च कदा कुर्यात्तन्त्रे कुर्याच्च दक्षिणाम्
कांचनस्य भवेद्रौप्यं रौप्ये कांचनमुद्विशेत्
पानीयस्य तु पानीयं व्रीहीणां व्रीहिदक्षिणा
पशूनां च चतुष्पादा देवस्य देवदक्षिणा
आचार्यस्यैव भागैकं यजमानः प्रदास्यति
पात्राणामृत्विगादीनां भागत्रयमुदाहृतम्
ः आचार्याद्यंशतः कश्चित्क्षीणवित्तं समाहरेत्
मानाशक्तौ तु यज्ञानां यद्देयं यज्ञसिद्धये
नमेरुफलपुष्पाणि देयान्येतानि सर्वतः
देवताप्रतिमाद्यं च शिरोनाभिस्तथैव च 2.2.3.
दक्षिणावर्तशंखं च हरिवंशस्तथा खिलः
अमूल्यान्याहुरेतानि दत्त्वानन्तफलानि च
क्षुद्रलिंगे स्वर्णमूल्यं पादार्धं श्रीधरेपि च
यथा पुस्तकमात्रेण स्वर्ण पादार्धमिष्यते
हरिवंशे श्लोकशते स्वर्णमेकं प्रकीर्तितम्
कपिलायां सुवर्णार्धं धेनुमात्रे पुराणकम्
पुराणत्रितयं चान्ये वीर्यहीने द्वयं भवेत्
द्वात्रिंशच्च पुराणं स्याद्वृषे नीले तथैव च
मूल्यं श्रीफलमात्रेऽपि पुराणत्रितयं भवेत्
धात्रीफलस्य प्रत्येकं भवेद्रजतमा षकम् 2.2.3.
मूल्यदानवर्णनम् कामहोमे भवेन्मुष्टिर्मुष्टयोष्टौ तु कुञ्चिका
एकैक कुञ्चिमानेन कुर्यात्पात्राणि वै सदा
सिद्धानां खड्गधाराणां प्रत्येकस्य दिनक्रमात्
कुण्डानां कुड्मलानां च वेदनं यादृशं शृणु
द्वे रौप्ये सर्वतोभद्रे क्रौञ्चघ्राणे चतुर्थकम्
सहस्रारे मेरुपृष्ठे तुर्यरौप्यवृषाधिकम्