नवमे कोटिहोमे च देवतानां च स्थापने
तडागे पुष्करिण्यां च अर्धार्धं परि कीर्तितम्
जीवतश्च वृषोत्सर्गे गयाश्राद्धे तथैव च
दंपत्योश्च वृषोत्सर्गे मानमेकमुदाहृतम् 2.2.3.
राज्ञः करग्रहे चैव दीक्षायां दान कर्मणि
ग्रहयागे प्रतिष्ठायां सुवर्णशतरत्तिकः
देवानां ब्राह्मणानां च दानं यस्य प्रकल्पितम्
नानास्य किञ्चिद्दातव्यं संगभंगो भवेद्यतः
यज्ञेषु होमे यद्द्रव्यं काष्ठमाज्यादिकं च यत्
अनादिदेवतार्चायां पूजास्नानादिकर्मणि
प्रत्यक्षं दक्षिणां दद्याद्यज्ञदानव्रतादिके
अतो दत्तं पुरा दत्तं दातव्यं चैव संप्रति
दत्तानि विधिवत्पुंसां देवदानानि यानि हि
दातव्यान्यपि तान्येव कारयेत्परिवर्त्तनम् 2.2.3.
वरणं च कदा कुर्यात्तन्त्रे कुर्याच्च दक्षिणाम्
कांचनस्य भवेद्रौप्यं रौप्ये कांचनमुद्विशेत्
पानीयस्य तु पानीयं व्रीहीणां व्रीहिदक्षिणा
पशूनां च चतुष्पादा देवस्य देवदक्षिणा
आचार्यस्यैव भागैकं यजमानः प्रदास्यति
पात्राणामृत्विगादीनां भागत्रयमुदाहृतम्
ः आचार्याद्यंशतः कश्चित्क्षीणवित्तं समाहरेत्
मानाशक्तौ तु यज्ञानां यद्देयं यज्ञसिद्धये
नमेरुफलपुष्पाणि देयान्येतानि सर्वतः
देवताप्रतिमाद्यं च शिरोनाभिस्तथैव च 2.2.3.
दक्षिणावर्तशंखं च हरिवंशस्तथा खिलः
अमूल्यान्याहुरेतानि दत्त्वानन्तफलानि च
क्षुद्रलिंगे स्वर्णमूल्यं पादार्धं श्रीधरेपि च
यथा पुस्तकमात्रेण स्वर्ण पादार्धमिष्यते
हरिवंशे श्लोकशते स्वर्णमेकं प्रकीर्तितम्
कपिलायां सुवर्णार्धं धेनुमात्रे पुराणकम्