मंडलं बिंबराजस्य अष्टोत्तरदलैर्वृतम्
त्र्यृतुपत्रं सुवृत्तं स्याद्वृत्तयुक्तं सबिल्वकम्
शतं विंशाधिकशतं द्विशतं विंशमुत्तमम्
लवल्याभमथो वक्ष्ये सार्द्धहस्तप्रमाणतः 2.2.2.
दक्षिणोत्तरतश्चैव तद्वदेव विजानीहि
ग्रहपक्षेन्नपीतेन मध्ये रक्तं प्रतिष्ठितम्
सशांतिके न योक्तव्यं कामे रक्तं विनिर्दिशेत्
शुक्लवर्णेन तत्कुर्यात्पीतवर्णमुदस्य च
पूर्वस्यां दिशि शुक्रस्य पङ्कजं शुभ्रवर्णकम्
राहोः प्रकल्पयेत्तच्च केतोरपि नियोजयेत्
विलोमे दलसन्धीनि पूरयत्सुविचक्षणः
पूर्वपश्चिमदिग्भागे शुक्लं स्याद्द्वारदेशतः
त्रिस्थाने सममध्ये च द्वादशांगुलप्रक्रमात्
पञ्चाब्जमण्डलं ज्ञेयं चतुःस्वस्तिकभूषितम् ।। 2.2.2.
मूल्यकथनवर्णनम् अमानेन हतो यज्ञस्तस्मान्मानं प्रशस्यते
यस्य यज्ञस्य यन्मानं तत्तु तेनैव योजयेत्
आचार्यहोतृब्रह्माणो विधिज्ञः सहकर्तृकः
अशीतिभिर्वराटैश्च पण इत्यभिधीयते
राजतैश्चाष्टभिः स्वर्णं यज्ञादौ दक्षिणा स्मृता
तुलस्यामलकीयागे सुवर्णैकं प्रचक्षते
नवमे कोटिहोमे च देवतानां च स्थापने
तडागे पुष्करिण्यां च अर्धार्धं परि कीर्तितम्
जीवतश्च वृषोत्सर्गे गयाश्राद्धे तथैव च
दंपत्योश्च वृषोत्सर्गे मानमेकमुदाहृतम् 2.2.3.
राज्ञः करग्रहे चैव दीक्षायां दान कर्मणि
ग्रहयागे प्रतिष्ठायां सुवर्णशतरत्तिकः
देवानां ब्राह्मणानां च दानं यस्य प्रकल्पितम्
नानास्य किञ्चिद्दातव्यं संगभंगो भवेद्यतः
यज्ञेषु होमे यद्द्रव्यं काष्ठमाज्यादिकं च यत्
अनादिदेवतार्चायां पूजास्नानादिकर्मणि