शुक्लेन पीठगात्राणि पीठकोणे पदत्रये
शुद्धेन रचयेत्पादौ पुनः पीतादिवर्णकैः
मानं कल्पलतायास्तु द्व्यङ्गुलं परिकीर्तितम्
ग्रंथौग्रंथौ पुष्पफले नानावर्णेन भावयेत् 2.2.2.
वैष्णवे गारुडं शस्तं शैवे कीशवृषं लिखेत्
शोभां पीतेन रचयेदुपशोभां च पीतकैः
शुक्लपीतारुणैः कार्यं मण्डलं स्यान्मनोरमम्
सर्वज्ञानमयं शुद्धं धर्मकामार्थदायकम्
पातयेत्तत्र सूत्राणि कोष्ठानां दृश्यते शतम्
कोष्ठं प्रकल्पयेत्पीठं पंक्त्या चैवात्र वीथिकाम्
अवशिष्टैः पदैः कुर्यात्सद्भिस्तंत्राणि मन्त्रवित्
पूर्वोक्तमण्डले विद्वन्धरणीसदनं बहिः
गुलालीतूर्यवर्णेन महामत्त इति स्मृतः
एतद्धि सर्वतोभद्रं राशियुक्तमतः परम् 2.2.2.
गजाह्वं च गजाकारं मध्ये तु समलङ्कृतम्
बहिर्द्वादशभिः सूर्यैः सूर्याक्रांतं प्रकीर्तितम्
सहस्रमेव विप्रेन्द्राः पद्मान्ते यस्य स्वस्तिकम्
चिन्तामणिं कुंकुमांशं खातं च हरिवल्लभम्
तद्वद्वृषासनं ज्ञेयं शिखिरूपं शिखिध्वजम्
गारुडं मेरुगर्भं च नीलकण्ठं नराकृतिम्
अष्टास्रमष्टकोणाद्यं बहिः पद्मवनं कृतम्
त्र्यस्रगर्भं पङ्कजं च त्र्यस्रं तत्परिकीर्तितम्
महामहामेरुपृष्ठं शतत्रयच्छदैर्वृतम्
दंडिश्रवणसंपन्न ६० माकाशं वसुसंमितम् ।। 2.2.2.
शतविंशाधिकं चैव १२० दलानि तदनन्तरम्
शुक्लेन पङ्कजं तत्र पश्चात्कुर्यात्त्रिवेष्टनम्
स्थंडिले कुशहस्ते च पूर्ववद्वेष्टयेत्क्रमात् ।। वसु ८ पञ्चकला १६ पञ्चविंशकं २५ तन्नपत्रकात्
चत्वारिंशत्ततः पश्चा ४० दष्टोत्तरशतं १०८ भवेत्
विलोमे दलसन्धीनि शाक्ते शैवे तु षट्पुरम्
रक्तपीतैः समास्तीर्य कोणाञ्छुक्लेन पूरयेत्