कोणे सूत्रद्वयं दद्यान्मध्ये सूत्रद्वयं पुनः
चतुः सूत्रं पातयेच्च पूर्वापरविभागतः
शतद्वयपदं यावत्षट्पंचाशाधिकं तथा
ऊर्ध्वपंक्त्या पदयुगं चाद्ये पदचतुष्टयम् 2.2.2.
रेखां सर्वत्र शुक्लेन रचयेद्यज्ञियोत्तमः
शक्तियोगे भवेद्रक्तं शैवे पीतं विनिर्दिशेत्
पीतेन कर्णिका कार्या चतुर्भागेन मानतः
कर्णिकामूलमारभ्य रेखाः षोडश कल्पयेत्
अग्रे पीतं भवेदेवं कृत्वा पंकजवेष्टनम्
मध्ये रक्तं भवेत्तच्च एवं षोडशकल्पयेत्
शुक्लेन पीठगात्राणि पीठकोणे पदत्रये
शुद्धेन रचयेत्पादौ पुनः पीतादिवर्णकैः
मानं कल्पलतायास्तु द्व्यङ्गुलं परिकीर्तितम्
ग्रंथौग्रंथौ पुष्पफले नानावर्णेन भावयेत् 2.2.2.
वैष्णवे गारुडं शस्तं शैवे कीशवृषं लिखेत्
शोभां पीतेन रचयेदुपशोभां च पीतकैः
शुक्लपीतारुणैः कार्यं मण्डलं स्यान्मनोरमम्
सर्वज्ञानमयं शुद्धं धर्मकामार्थदायकम्
पातयेत्तत्र सूत्राणि कोष्ठानां दृश्यते शतम्
कोष्ठं प्रकल्पयेत्पीठं पंक्त्या चैवात्र वीथिकाम्
अवशिष्टैः पदैः कुर्यात्सद्भिस्तंत्राणि मन्त्रवित्
पूर्वोक्तमण्डले विद्वन्धरणीसदनं बहिः
गुलालीतूर्यवर्णेन महामत्त इति स्मृतः
एतद्धि सर्वतोभद्रं राशियुक्तमतः परम् 2.2.2.
गजाह्वं च गजाकारं मध्ये तु समलङ्कृतम्
बहिर्द्वादशभिः सूर्यैः सूर्याक्रांतं प्रकीर्तितम्
सहस्रमेव विप्रेन्द्राः पद्मान्ते यस्य स्वस्तिकम्
चिन्तामणिं कुंकुमांशं खातं च हरिवल्लभम्
तद्वद्वृषासनं ज्ञेयं शिखिरूपं शिखिध्वजम्
गारुडं मेरुगर्भं च नीलकण्ठं नराकृतिम्