तस्य कल्पशतोद्भूतं पापं नाशयते धुवम्
प्रमादाद्वा गृहे क्षेत्रे वृक्षाग्रे चापि भो द्विजाः
पोषणात्कीर्तिमाप्नोति दर्शनात्पापविच्युतिः
मयूरो ब्रह्मणो मूर्तिर्वृषभश्च सदाशिवः 2.2.2.
क्रौंचो नारायणो देवो व्याघ्रस्त्रिपुरसुंदरी
स्नातः पश्यति प्रत्यह्नि ग्रहदोषो न जायते
अतः परं प्रवक्ष्यामि मंडले मंडलेष्वपि
तंडुलोत्थं यवोत्थं वा वर्ज्यं मकररोपणम्
हरितालं सुभद्रं च सदा विघ्नं विवर्जयेत्
कांचन्याश्च प्रभेदं यच्छस्तं शुक्लगुणं द्विजाः
किंशुकस्य च पुष्पाणि शस्तं पीतं गुणं भवेत्
कुशीतं गुडकं चैव मंजिष्ठां पंचरंगकम्
पुनर्नवायाः पत्रं च केशरस्य बकस्य च
नागपाषाणकं चैव पुन्नागं दग्धपंचकम् 2.2.2.
कर्पूरं कुंकुमं चैव रोचनारोचनां श्रयेत्
लाक्षां च यदि गृह्णीयात्तद्भर्जित्वा प्रदापयेत्
धरणीं सदनस्थाने पञ्चधा विभजेद्बहिः
तर्जन्यमध्या पूर्वोत्थं विभजेद्वा समाहितः
तृणमारभ्य सामान्ये शक्तो वा मध्यमादितः
अंगुल्यग्रे च विभजेत्सर्वकामार्थसिद्धये
सुभद्रं मण्डलं वक्ष्ये शुभदं शुभमादिशेत्
सार्धहस्तेन मानेन कुर्यान्मंण्डलमुत्तमम्
कर्तुर्मध्यसहस्रस्य मध्यमा मध्यपर्वणि
रेखाद्वयांतरं यच्च मूलरेखां न चाश्रयेत् 2.2.2.
मध्ये निबध्य शंकुं च मुष्टिबाहुप्रमाणतः
प्रकल्प्य कर्णिकादीनि मध्ये चाष्टदलं लिखेत्
पंचमं श्वेतवर्णेन बहिः कुर्यात्त्रिवेष्टनम्
वेष्टयेच्छुक्लवर्णेन मध्ये कल्पलतां लिखेत्
सर्वकार्येषु यज्ञेषु सर्वकल्याणमाप्नुयात्
साधकानां हितार्थाय ईश्वरेणैव भाषितम्