चकार पन्नगोक्तं तद्गतरोगो नृपोऽभवत्
ततो जातं स्वयं लिंगमंगुष्ठाभं सनातनम्
निशीथे तम उद्भूते दिक्षु सूर्यत्वमागतम्
महिम्नस्तवपाठैश्च तुष्टाव गिरिजापतिम्
श्रुत्वाह नृपतिर्देवं यदि तुष्टो महेश्वर
तथेत्युक्त्वा महादेवो लिंगरूपत्वमागतः
तदा मलस्तु संतुष्टः प्राप्तो गेहं महावतीम्
ततःप्रभृति वर्षांते जयचंद्रपुरीं ययौ 3.3.7.
दिष्ट्या ते संक्षितो रोगो दिष्ट्या ते दर्शितं मुखम्
यदा मे विघ्न आभूयात्तदा त्वं मां समाचर
तदा तु लक्षणो वीरो भगवन्तमुषापतिम्
पक्षमात्रांतरे विष्णुर्जगन्नाथ उषापतिः
इत्युक्तः स तु तं देवं नत्वोवाच विनम्रधीः
इति श्रुत्वा जगन्नाथः शक्तिमैरावताद्गजात्
आरुह्यैरावतीं राजा लक्षणो गेहमाययौ
एतस्मिन्नंतरे वीरास्तालनाद्या मदोत्कटाः
तेन सार्द्धं च महतीं प्रीतिं कृत्वा न्यवासयन्
ऊचुस्तं शृणु भूपाल वयं गच्छामहे पुरीः दत्त्वाधिकारं पुत्रेभ्यस्तदाऽऽयास्यामि वोऽन्तिकम् ।। 3.3.7.
तथेत्युक्तास्तु ते राज्ञा स्वगेहं पुनराययुः
पुत्रेभ्यस्तालनो वीरो ददौ वाराणसीं पुरीम्
करीनरी सुललितस्तेषां नामानि वै क्रमात्
स वै पुत्राज्ञया शूरस्तालनो राक्षसप्रियः
तथा वसुमतः पुत्रौ भूपतीदेशवत्सजौ
सिंहिनीनाम वडवां या तु दत्ता भयानका
पंचशब्दं महानागमिन्द्रदत्तं मनोरमम्
हयं पपीहकं नाम सूर्यदत्तं नरस्वरम्
त्रयः शूराः समागम्य नगरीं ते महावतीम्
सेना षष्टिसहस्रं तत्तेषां स्वामी स तालनः 3.3.7.
तैर्वीरै रक्षितो राजा कृतकृत्यत्वमागतः
कालियेन युतः प्राप्तो नर्मदायास्तटे शुभे