शुक्लं तंडुलचूर्णोत्थं पीतं तु निशया स्मृतम्
कृष्णं पुलकादिदग्धं रक्तं पीतास्ययोगतः
ताम्रवर्णं कुसुंभेन श्यामलं बिल्वपत्रजम्
सर्वरेखासु विभजेच्छुक्लं मध्ये तु पीतकम् 2.2.2.
पूर्वादिक्रमयोगेन शुक्लादीनि प्रयोज येत्
ततः षोडशपत्रेषु पूर्वादिक्रमतो भवेत्
श्यामलं कुंकुमाभं च रक्तं शुक्लं च कृष्णकम्
एवं दद्याद्द्विजः पूर्वे ईशानांतं विभावयेत्
तुंडभागे भवेत्पीतं ग्रीवायां शुक्लमेव च
षडंगुलेष्वंडभागे पीतेन परिकल्पयेत्
तत्र पीतादिकं लेख्यं पूर्वोक्तं च यथा भवेत्
चतुरंगुलके पादे जानोरूर्ध्वे तु पीतकम्
द्व्यंगुलेन भवेच्छ्याममंगुलीष्वपि विन्यसेत्
पदे शुद्धं चांगुलीषु रक्तं श्यामेन भावयेत् 2.2.2.
दक्षिणोत्तरतश्चैव रक्तवर्णं विनिर्दिशेत्
कनिष्ठं सर्वयज्ञेषु विद्यानां सप्तमुत्तमम्
रक्तपीतं रक्तपीतैः कुर्यात्पुच्छचतुष्टयम्
सुलिखेन्मूलसंलग्नं बहिष्कोणचतुष्टयम्
त्रिवृत्तं वेष्टयेत्पश्चात्सितरक्तासितैः क्रमात्
पीतं वा विलिखेद्विप्रा नश्यंति सकलापदः
तस्य कल्पशतोद्भूतं पापं नाशयते धुवम्
प्रमादाद्वा गृहे क्षेत्रे वृक्षाग्रे चापि भो द्विजाः
पोषणात्कीर्तिमाप्नोति दर्शनात्पापविच्युतिः
मयूरो ब्रह्मणो मूर्तिर्वृषभश्च सदाशिवः 2.2.2.
क्रौंचो नारायणो देवो व्याघ्रस्त्रिपुरसुंदरी
स्नातः पश्यति प्रत्यह्नि ग्रहदोषो न जायते
अतः परं प्रवक्ष्यामि मंडले मंडलेष्वपि
तंडुलोत्थं यवोत्थं वा वर्ज्यं मकररोपणम्
हरितालं सुभद्रं च सदा विघ्नं विवर्जयेत्
कांचन्याश्च प्रभेदं यच्छस्तं शुक्लगुणं द्विजाः