पीतकार्यस्रजं चैव कीलकं स्वर्णनिर्मितम्
गणनायके सुप्रशस्तं शैषेपामार्गमेव च
षोडशे चार्कहस्ते च तत्र नेमियुतं भवेत्
मण्डलदेवरचनावर्णनम् अर्कांगुलमितं क्षेत्रं चतुरस्रं प्रकल्पयेत्
गुणांगुलं प्रतिदिशं वर्धयेत्सुविचक्षणः
द्विहस्ते चैव सूत्राग्रे त्र्यंगुलानि समंततः
एवं पोडशहस्तांतं वर्धयेत्क्रमतः स्वयम्
द्वादशांगुलकल्पाभ्यां मधुहस्ते च मंडले
पद्ममानं चतुर्द्धा तु वृत्तं कुर्यात्समंततः
तृतीये दलसंधींश्च दलाग्राणि चतुर्थके
केशरास्त्रिविधाः प्रोक्ता मूलमध्याग्रदेशतः
पात्रसंधिर्भवेच्छ्यामः कोणे रक्तेन रंजयेत्
अष्टांगुलप्रमाणं यद्यथावर्णं विनादितः 2.2.1.
सीमरेखांगुलोच्छ्रायं तत्तदर्धेन योजयेत्
प्रतिष्ठायां च रामांतं कृष्णांतं च जलाशये
ग्रहयागे च पीतादीन्कुर्याच्च न तदन्यथा
सर्वं च पूर्ववत्कार्यं पंकजं सुलिखेत्सुधीः
शुक्लारुणैस्तथा पीतैः पीतारुणसितैरपि
कलायंत्रं तदंते च गुह्यपत्रा ग्रकेण तु
एवं मंडलमंत्राणां वर्जयेत्परमार्थतः
दशदंडसमाकारं त्रिवर्णं प्रतिरंजितम्
पीतेनारं च सर्वत्र तन्मध्ये शोणतुंडकम्
न शूद्रो मंडलं कुर्यान्न कुर्याद्ब्राह्मणब्रुवः 2.2.1.
लिखित्वा नार्चयेद्य स्तु अग्निकार्यविहीनकः
क्रौञ्चमानवर्णनम् क्रौञ्चमानं प्रवक्ष्यामि यथावेदार्थवादिनाम्
आत्मनोऽरत्निमानेन द्विगुणं परिकल्पयेत्
चतुष्टयं न्यसेद्वृत्तं मध्यमाधमभावतः
तृतीये पद्मपत्राणि चतुर्थे षोडशच्छदाः
तद्दक्षिणाग्रं सुलिखेत्पार्श्वयोः पक्षकद्वयम्
शुक्लं पीतं तथा रक्तं कृष्णं लोहितसन्निभम्