ग्रहाणां पौष्टिके पक्षे बाह्यग्रामादिसाधने
प्रथमे मुष्टिहस्तः स्यात्संपूर्णे शेषमानकैः
शेषा चैव वरिष्ठा च लवली भित्ति वेदिका
अयथाव्यत्यये दोषस्तस्माद्यत्नेन साधयेत्
मुष्टिबाहुञ्च प्रादेशं वर्धयेत्षोडशांशके
दर्पणाकारकं कुर्याद्यागके शांति कर्मणि
निशारणैर्गोमयैश्च वेदिकां च प्रलेपयेत्
हीनवीर्यगवानां च पुरीषं धेनुकं तथा
वर्जयेत्सर्वयागेषु स्थंडिलेषु प्रयत्नतः 2.1.21.
तस्मात्प्रयत्नतः कार्यं यत्सूत्रं यच्च कीलकम्
पीतकार्यस्रजं चैव कीलकं स्वर्णनिर्मितम्
गणनायके सुप्रशस्तं शैषेपामार्गमेव च
षोडशे चार्कहस्ते च तत्र नेमियुतं भवेत्
मण्डलदेवरचनावर्णनम् अर्कांगुलमितं क्षेत्रं चतुरस्रं प्रकल्पयेत्
गुणांगुलं प्रतिदिशं वर्धयेत्सुविचक्षणः
द्विहस्ते चैव सूत्राग्रे त्र्यंगुलानि समंततः
एवं पोडशहस्तांतं वर्धयेत्क्रमतः स्वयम्
द्वादशांगुलकल्पाभ्यां मधुहस्ते च मंडले
पद्ममानं चतुर्द्धा तु वृत्तं कुर्यात्समंततः
तृतीये दलसंधींश्च दलाग्राणि चतुर्थके
केशरास्त्रिविधाः प्रोक्ता मूलमध्याग्रदेशतः
पात्रसंधिर्भवेच्छ्यामः कोणे रक्तेन रंजयेत्
अष्टांगुलप्रमाणं यद्यथावर्णं विनादितः 2.2.1.
सीमरेखांगुलोच्छ्रायं तत्तदर्धेन योजयेत्
प्रतिष्ठायां च रामांतं कृष्णांतं च जलाशये
ग्रहयागे च पीतादीन्कुर्याच्च न तदन्यथा
सर्वं च पूर्ववत्कार्यं पंकजं सुलिखेत्सुधीः
शुक्लारुणैस्तथा पीतैः पीतारुणसितैरपि
कलायंत्रं तदंते च गुह्यपत्रा ग्रकेण तु
एवं मंडलमंत्राणां वर्जयेत्परमार्थतः