देवाः पद्मासनस्थाश्च भविष्यंति वसंति च
अतो मंडलविच्छेदं यस्माद्दशगुणं भवेत्
त्रिशतं वंदने साध्ये सहस्रं च रजोऽष्टकम्
यन्त्रे मणौ शालग्रामे प्रतिमायां विशेषतः
रजोयुक्तं लिखेद्यस्तु पूजाकार्ये विभूतये
चतुरस्रं नवं व्यूहं क्रौंचप्राणं चतु र्विधम्
पारिजातं चंद्रबिंबं सूर्यकांतं च शेखरम्
पंचाब्जं चैव मैनाकं कामराजं च पुष्करम्
चत्वारिंशत्तथा पंचस्वाधिकं परिसंख्यया 2.1.21.
प्रशस्तं चापि गोमेधे क्रौंचं घ्राणं चतुर्विधम्
सर्वत्र सर्वतोभद्रं चतुरस्रं सुभद्रकम्
शक्तानां कामपक्षे च पंचसिंहासनं महत्
सहस्रं शतपत्रं च अन्नदाने तिलाचले
प्रतिष्ठायां सुभद्रं च सर्वतोभद्रमेव च
घटप्रस्थापने चैव गजाह्वं तुरगासनम्
यस्य यज्ञस्य यद्बिंबं तत्तु तेनैव योजयेत्
द्विहस्ता चतुरस्रा च वेदिका परिकीर्तिता
षडंगुला नवव्यूहे वर्धयेद्यज्ञकोविदः
क्रौंचप्राणे तुर्यहस्तं मुष्टिहस्तं समुच्छ्रितम् 2.1.21.
कुर्याद्द्वित्रिक्रमाद्धीनमुच्छ्राये द्विजसत्तमाः
ग्रहाणां पौष्टिके पक्षे बाह्यग्रामादिसाधने
प्रथमे मुष्टिहस्तः स्यात्संपूर्णे शेषमानकैः
शेषा चैव वरिष्ठा च लवली भित्ति वेदिका
अयथाव्यत्यये दोषस्तस्माद्यत्नेन साधयेत्
मुष्टिबाहुञ्च प्रादेशं वर्धयेत्षोडशांशके
दर्पणाकारकं कुर्याद्यागके शांति कर्मणि
निशारणैर्गोमयैश्च वेदिकां च प्रलेपयेत्
हीनवीर्यगवानां च पुरीषं धेनुकं तथा
वर्जयेत्सर्वयागेषु स्थंडिलेषु प्रयत्नतः 2.1.21.
तस्मात्प्रयत्नतः कार्यं यत्सूत्रं यच्च कीलकम्