देहि मेति च मंत्रस्य प्रजापतिर्ऋषिः स्मृतः
पूर्णा दर्वीति मन्त्रस्य शतक्रतुर्ऋषिः स्मृतः
पुनात्विति च मन्त्रस्य ऋषिः स्यात्पवनः स्मृतः
तुर्यपूर्णा यज्ञमध्ये नकुले द्विजसत्तमाः
ऋत्विक्छंदः स्पृशन्सम्यग्दक्षिणांगमथापि वा
विश्वामित्रोऽयुतं तत्र होमं कुर्याद्विचक्षणः 2.1.20.
नागरंगं धातकीं च पूर्णायां च विवर्जयेत्
तस्मात्प्रागेव सतिलान्गणित्वा स्थापयेत्पृथक्
धातक्याश्च फलैः संख्या कर्तव्या फलमिच्छता
नागरंगफलैरेव धातक्या बकुलैः फलैः
कर्पूरचंदनैः कुर्याद्धोलिकां यज्ञसिद्धये
रक्तगुंजाफलैः संख्यां पुष्टिकामेषु योजयेत्
होता स्यादयुतेनापि एकाहे वेदसंख्यया
लक्षहोमे तु होतारः षडेव परिकीर्तिताः
नव पंच दशदशकं पंचविंशमथापि वा
नवग्रहमखे विप्राश्चत्वारो वेदवेदिनः 2.1.20.
कार्यावयुतहोमे तु न प्रसज्येत विस्तरे
कर्तव्याः शक्तितस्तद्वच्चत्वारोऽपि विमत्सराः
एकमप्यर्चयेद्ब्रह्मा सहस्रे त्वेकब्राह्मणम्
लक्षहोमस्तु कर्तव्यो यदा वित्तं भवेत्तदा
पूज्यते शिवलोके च वस्वादित्यमरुद्गणैः
अकामो यस्त्विमं कुर्याल्लक्षहोमं यथाविधि
पुत्रार्थी लभते पुत्रं धनार्थी लभते धनम्
भ्रष्टराज्यस्तथा राज्यं श्रीकामः श्रियमाप्नुयात्
निष्कामः कुरुते यस्तु परं ब्रह्माधिगच्छति
आचार्य एव होता स्याद्ब्राह्मणानामसंभवे 2.1.20.
दर्भासनेऽतो न कुशे तृणे पत्त्रे त्वचेऽपि च
तत्र दारुमयं कुर्यादागमं भजते द्विजः
द्विजसंस्कारकार्येषु पूर्णादौ चापि दक्षिणा
मण्डलविधिवर्णनम् यदधीना भवेत्सिद्धिस्तस्मात्कुर्यात्समाहितः