स्रुवं स्रुचमथो वक्ष्ये यदधीनश्च जायते
तस्यादौ च स्रुवं वक्ष्ये यच्च मानं यदास्पदम्
समुपोष्य च रचयेदामिषाणि न च स्मरेत्
काष्ठं गृहीत्वा विभजेद्भागांस्त्रिंशत्तथा पुनः
कटाहाकारनिम्नं च स्रुवं कुर्याद्विचक्षणः
वेदीं शूर्पाकृतिं कुर्यात्कुंडानि परिकल्पयेत्
स्रुवं चतुर्विंशतिभिर्भागैश्च रचयेद्ध्रुवम् 2.1.19.
चतुर्भिरंगैरानाहं कर्षाद्यग्रं ततः स्रुवम्
दंडमूलाश्रये दंडी भवेत्कंकणभूषितः
श्रैवर्णिकोद्भवं यच्च इंदुवृक्षसमुद्भवम्
द्वयंगुलं मंडलं तस्य दर्वी सा यज्ञसाधने
पंचांगुलं मंडलं च अष्टहस्तं च दंडकम्
दशतोलकमानेन सा च दर्वी उदाहृता
षोडशांगुलमानेन सर्वाभावे च पैप्पलीम्
अथ ताम्रमयी कार्या न च तां तत्र योजयेत्
इति श्रीभविष्ये महापुराणे मध्यम पर्वणि प्रथमभागे स्रुवदर्वीनिर्णयो नामैकोनविंशोऽध्यायः
पूर्णविधिवर्णनम् यस्य सम्यगनुष्ठानात्संपूर्णं स्यादिति स्थितिः
होमपूर्तौ मोक्षकल्पः पूजांतेऽर्घ्यं विधीयते
तस्मात्सर्वप्रयत्नेन स्रुवाधो विन्यसेच्चरुम्
गृहं प्रविश्य च ततः कुलपूजां समाचरेत्
नियोजयेत्प्रतिष्ठायां नित्यनैमित्तिके शृणु
सप्ततेति द्वितीया स्याद्देहिमेति तृतीयिका
उत्थाय दद्यात्पूर्णां तु नोपविश्य कदाचन
ग्रहहोमे शतांते च पूर्णा एका विधीयते
सहस्रांते ददेदेकं पुष्पहोमे च सत्तमाः
मृदुपुष्पाकृतौ त्वेका केवले चेक्षुहोमके 2.1.20.
सीमंतोन्नयने चैव प्रायश्चित्ताकृतीषु च
एवं स्रुचौ समौ कृत्वा उपर्युपरि विन्यसेत्
ऋषिछंदादिकं श्रुत्वा प्रतिमंत्रस्य सत्तमाः
सप्ततेति ब्राह्मणस्य ऋषिः कौंडिन्य ईरितः