बिल्वपत्रस्य प्लवनं दंडं हित्वा च प्लावयेत्
बिल्वपत्रस्य पूर्वार्धप्राप्तमात्रेण योज येत्
न द्वित्रिप्लवनं कुर्यात्कृत्वा याति रसातलम्
पूर्वाशाभिमुखो भूत्वा पावयेच्च यथाक्रमात् 2.1.18.
पायसान्यन्यदेवेषु यत्नेन परिव र्जयेत्
कनिष्ठांगुलिमासाद्य प्रकुर्यात्पर्वभूषणम्
अंगुलैर्द्वित्रिचतुरैः पत्रहोमाकृतिक्रमात्
स्रुवदर्वीनिर्णयवर्णनम् स्रुवे प्रशस्तास्तरवः सिद्धिदा यागकर्मणि
प्रतिष्ठायां प्रशस्तास्तु धात्रीखदिरकेशराः
संप्राशे यः स्रुवः प्रोक्तः संस्कारे यज्ञसाधने
स्रुवं स्रुचमथो वक्ष्ये यदधीनश्च जायते
तस्यादौ च स्रुवं वक्ष्ये यच्च मानं यदास्पदम्
समुपोष्य च रचयेदामिषाणि न च स्मरेत्
काष्ठं गृहीत्वा विभजेद्भागांस्त्रिंशत्तथा पुनः
कटाहाकारनिम्नं च स्रुवं कुर्याद्विचक्षणः
वेदीं शूर्पाकृतिं कुर्यात्कुंडानि परिकल्पयेत्
स्रुवं चतुर्विंशतिभिर्भागैश्च रचयेद्ध्रुवम् 2.1.19.
चतुर्भिरंगैरानाहं कर्षाद्यग्रं ततः स्रुवम्
दंडमूलाश्रये दंडी भवेत्कंकणभूषितः
श्रैवर्णिकोद्भवं यच्च इंदुवृक्षसमुद्भवम्
द्वयंगुलं मंडलं तस्य दर्वी सा यज्ञसाधने
पंचांगुलं मंडलं च अष्टहस्तं च दंडकम्
दशतोलकमानेन सा च दर्वी उदाहृता
षोडशांगुलमानेन सर्वाभावे च पैप्पलीम्
अथ ताम्रमयी कार्या न च तां तत्र योजयेत्
इति श्रीभविष्ये महापुराणे मध्यम पर्वणि प्रथमभागे स्रुवदर्वीनिर्णयो नामैकोनविंशोऽध्यायः
पूर्णविधिवर्णनम् यस्य सम्यगनुष्ठानात्संपूर्णं स्यादिति स्थितिः
होमपूर्तौ मोक्षकल्पः पूजांतेऽर्घ्यं विधीयते
तस्मात्सर्वप्रयत्नेन स्रुवाधो विन्यसेच्चरुम्
गृहं प्रविश्य च ततः कुलपूजां समाचरेत्