वरुणः शांतिके ज्ञेयो मारणे ह्यरुणः स्मृतः
लोहितश्चान्नयज्ञे यो ग्रहाणां प्रत्यनुक्रमात्
प्रजापतिर्वास्तुयागे मंडपे चापि पद्मके
गोदाने च भवेद्रुद्रः कन्यादाने तु गोऽजकः
वृषोत्सर्गे भवेत्सूर्योऽवसानांते रविः स्मृतः
त्रासने च भवेत्कालः क्रव्यादः शरदाहने
गर्भाधाने च मरुतः सीमंते पिंगलः स्मृतः 2.1.17.
नामसंस्थापने चैवमुपन्यस्ते च पार्थिवः
षडाननश्च चूडायां व्रतादेशे समुद्भवः
उदरे जठराग्निश्च समुद्रे वडवानलः
अश्वाग्निर्मंथरो नाम रथाग्निर्जातवेदसः
तोयाग्निर्वरुणोनाम ब्राह्मणाग्निर्हविर्भुजः
दीपाग्निः पावको नाम गृह्याग्निर्धरणीपतिः
इति श्रीभविष्ये महापुराणे मध्यमपर्वणि प्रथमभागेऽग्निनामवर्णनंनाम सप्तदशोऽध्यायः
होमद्रव्यकथनम् प्रमाणे चाप्रमाणे च निष्फलं भवति धुवम्
कर्षमात्रं घृतं होमे शुक्तिमात्रं पयः स्मृतम्
मुष्टिमानेन पृथुका लाजाः स्युर्मुष्टिसंमिताः
त्रितोलकं गुडं विद्यादिक्षुपर्ववि धिर्भवेत्
एकलग्ने न जुहुयान्न पृथग्जुहुयात्क्वचित्
एकैकशश्च पद्मानां जलजानां तथैव च
वसंतकं धात्रिमाने मोदकस्य प्रमाणतः
अष्टधा नालिकेरस्य पनसं दशधा भवेत्
उर्वारुकं चाष्टधा च गुडूची चतुरंगुलम्
अन्यत्र बदरीमानं तिंदुकं च त्रिधा कृतम् 2.1.18.
भूर्जपत्रं च गृह्णीयाच्छमीं प्रादेशमात्रिकाम्
मरिचाः स्युर्विमा नेन मृणालं चाथ मूलकम्
चंदनागुरुकर्पूरकस्तूरीकुंकुमानि च
समिदाप्लवने त्र्यंगतिलानामपि मध्यतः
एवं व्रीहिप्लावने च काष्ठवदि क्षुदंडकम्
पायसान्ने तथान्ने च मोदके पिष्टकेऽपि च