छिन्नवृत्ताः शिखाः कुर्यान्मृत्युर्धनपरिक्षयः
एवंविधेषु दोषेषु प्रायश्चित्तं समाचरेत्
मूलेनाज्येन जुहुयाज्जुहुयात्पञ्चविंशतिम्
यज्ञान्तपूजाविधिवर्णनम् होमावसाने प्रजपेदुपचारांश्च षोडश
दद्यात्समीरणं पश्चात्पीठपूजां समाचरत्
इष्टं शक्तिस्वस्तिकाभीतिमुच्चैर्दीर्घैर्दोर्भिर्धारयन्तं वरांतम्
पूर्वादिद्वारदेशेषु कामदेवं शतक्रतुम्
आवाह्य स्थापयेत्पश्चादष्टौ मुद्राः प्रदर्शयेत्
अतः पूर्वादिपात्रेषु यावता च हुताशनम्
महोदरं महाजिह्वमाकाशत्वेन पूजयेत्
तत्रैव जिह्वास्त्रिविधा ध्यायेन्मंत्रपुरःसराः
त्वमादिः सर्वभूतानां संसारार्णवतारकः
दद्यादासनमेतेन पुष्पगुच्छत्रयेण तु 2.1.16.
वैश्वानर नमस्तेऽस्तु नमस्ते हव्यवाहन
नमस्ते भगवन्देव आपोनारायणात्मक
नारायणपरं धाम ज्योतीरूप सनातन
जगदादित्यरूपेण प्रकाशयति यः सदा
धनंजय नमस्तेऽस्तु सर्वपापप्रणाशन
हुताशन महाबाहो देवदेव सनातन
ज्योतिषां ज्योतीरूपस्त्वमनादिनिधनाच्युत
देवीदेवा मुदं यांति यस्य सम्यक्समागमात्
त्वं विष्णुस्त्वं हि ब्रह्मा च ज्योतिषां गतिरीश्वर
देवतानां पितॄणां च सुखमेकं सनातनम् 2.1.16.
त्वमेकः सर्वभूतेषु स्थावरेषु चरेषु च
नमोऽस्तु यज्ञपतये प्रभवे जातवेदसे
हुताशन नमस्तुभ्यं नमस्ते रुक्मवाहन
इत्यनेन तु मन्त्रेण दद्याद्दिव्येऽप्यधीतकम्
अग्निवर्णनम् यथावेदानुसारेण यथाग्रहण योजनम्
शतार्धे वह्निरुद्दिष्टः शतार्धे काश्यपः स्मृतः
सहस्रे ब्राह्मणो नाम अयुते हरिरुच्यते